________________
शाकटायनाचार्यप्रणीतं स्वोपनवृत्तिलमलकृतं केवलिभुक्तिप्रकरणम् द्वावप्रमत्तयोगिषु सप्तसु भङ्गो हि बेदनीयस्य।
[44a] सातासातोदयजौ बन्धोदयसत्त्वं योगस्य ॥ अथ ज्ञानमानन्दरूपम्
श्लोकमेकं विजानानः शास्त्रं ग्रन्थार्थतोऽपि वा।
हलादते मानुषस्तोत्रं किं पुनः सर्वभाववित् ॥ [ मोहश्च दुःखरूपः । तथा च क्रोधादिना जनस्तीवं दग्ध इव दु:खमनुभवति, तद्विगमे च सुखायते, अतोऽस्य तत् सुखमिति ।।
ज्ञानादिवन्न तज्जं विरोधि
न ज्ञानाद्येव सुखम्, ततोऽर्थपरिच्छेदलक्षणादाह्लादरूपस्य पृथगनुभवात् सुखदुःखहेतोश्च वेदनीयस्य कर्मणः पृथगनुशासनात् तन्मूलमभ्युपगम्यते यदि तत् सुखं क्षुधं विरुणद्धि ज्ञानक्षमादिवृद्धौ तज्जन्मनः सुखस्यापि वृक्ष विवृद्धौ छाया या इव विवृद्धरस्मदादिषु क्षुधो हानिः ज्ञानादिविवृद्धिमनु भवेत् । न चैवम् । तस्मान्न ज्ञानादिवत् तज्जन्म सुखं क्षुधं विरुन्ध्यात् ।
न परं ततो दृष्टम् ॥५॥
[44b]अथान्यदेव किञ्चित् तत्र सुखं क्षुद्विरोधि भोजनजन्म वाभ्युपगम्यते, न तत् प्रमाणतो दृष्टं येनाभ्युपगम्येत । प्रमाणमूलो ह्यभ्युपगमः ।
आहारविषयकाङ्क्षारूपा क्षुद् भवति भगवति विमोहे । कथमन्यरूपताऽस्या न लक्ष्यते येन 'जायेत ॥६॥
स्वभावविरुद्धोपलब्धेः कारणानुपलब्धेर्वा भगवति केवलिनि क्षुदभावः । क्षुच्चेयमाहारविषयकाङ्क्षास्वभावा, नास्याः स्वभावान्तरमुपलक्षयामो येन वीतमोहेऽपि जायेत । विषयकाङ्क्षा तिर्यगायुषो भङ्गा नव विसदृशा भवन्ति, मनुष्यगत्यां मनुष्यायुषो भङ्गा नव विसदृशा भवन्ति, देवगतौ देवायुषो भङ्गाः पञ्च विसदृशाः स्युः । गोत्रे ७, वेद्ये ८, आयुषि ५, ९, ९, ५॥ . . . .
. . . वेदनीये गोत्रवत् प्रथमा भङ्गाश्चत्वारो भवन्ति । गोत्रस्य पञ्चमं भङ्गं त्यक्त्वा चत्वार आद्या भङ्गा वेद्यस्य भवन्ति । सातासातैकतरमेव योग्यस्थाने बन्ध उदयो वा स्यात् । सत्त्वं सयोगान्तं द्वे द्वे अयोगे ते उदयागते । तेन वेदनीयस्य गुणस्थानं प्रति भङ्गाः मिथ्यादृष्टयादिप्रमत्तपर्यन्तेषु ते चत्वारो भङ्गाः - सातबन्ध-सातोदय-सातासातोभयसत्त्वमिति प्रथमो भङ्गः । सातबन्धासातोदयोभयसत्त्वमिति द्वितीयो भङ्गः। असातबन्धसातोदयोभयसत्त्वमिति तृतीयो भङ्गः। असातबन्धोदयोभयसत्त्वमिति चतुर्थों भङ्गः। इति चत्वारो भङ्गा :। मिथ्यात्व-सास्वादन-मिश्रा-ऽविरत-देशविरत-प्रमत्तगुणस्थानेषु षट्सु प्रत्येकं चत्वारो भङ्गा भवन्ति । खलु निश्चयेन अप्रमत्तादिसयोगान्तेषु सप्तसु द्वौ द्वौ भनौ प्रत्येकं भवतः । असातावेदनीयस्य बन्धस्य षष्ठे प्रमत्ते व्युच्छेदत्वादप्रमत्तादि सयोगान्तं केवलसातस्यैव बन्धः । ततः सातस्य बन्धः सातस्योदयः उभयसत्वमिति प्रथमभङ्गः। सातबन्धः असातोदयः सातासातसत्त्वमिति द्वितीयभङ्गः। एवं द्वौ द्वौ भनौ अप्रमत्तादिसयोगान्तं प्रत्येकं भवत: । अयोगस्य द्विचरमसमये बन्धरहितमादिमभङ्गद्वयं भवति,सातोदयः सातासातसत्त्वम् १ असातोदयः सातासातसत्त्वमिति २ द्वौ भनौ अयोगस्योपान्त्यसमये भवतः। अयोगस्य चरमसमये असातोदयः सत्त्वमप्यसातम् १ उदये सातं सत्तायां सातं २ मानाजीवापेक्षया शेयमिति। "-पृ० ३०३-३०८॥
१. जायते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org