________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् लभ्यते । न हि बालादौ ज्ञानाद्यपचये क्षुदुपचयस्ततः प्रभृति च ज्ञानाद्युपचये तारतम्येन . क्षुदपचयो लक्ष्यते । तन्न ज्ञानादिमात्रस्य क्षुधा विरोधः । अथ मन्येत - ये केवलिगता ज्ञानादयः प्रकर्षपर्यन्तप्राप्तास्तेषामेव [42b]क्षुधि विरोध इति,
न च तज्ज्ञानादीनां विरोधगतिः ॥३॥ न च केवलज्ञानादयः क्षुधं विरुन्धन्तीति शक्यं प्रतिपत्तुमतीन्द्रियत्वात् । न ह्यतीन्द्रियस्यार्थस्य केनचित् सह विरोधः प्रतीयते ।
अविकलकारणभावे तदन्यभावे भवेदभावेन । इदमस्य विरोधीति ज्ञानं न तदस्ति केवलिनि ॥४॥
कारणवैकल्यमपि वस्त्वभावे निबन्धनम् । अतो विकलकारणस्य वस्त्वन्तरसन्निधावभावेऽपि न विरोधः शक्यते प्रतिपत्तुम्, 'किमेतत्सन्निधावस्याभावः उत कारणवैकल्यात्' इति सन्देहात् । अतोऽविकलकारणस्य भ[43a]वतोऽन्यभावेऽभावाद् विरोधगतिः, तत्र 'अत एवास्याभावः' इति निर्णयात् । न चैवं स्वभावविप्रकृष्टेषु केवलिगुणेषु 'एतत्सन्निधौ हुन्न भवति' इति विरोधप्रतिपत्तिरुपजायते । अतो न ज्ञानादिभ्यस्तत्र क्षुदभावः ।
क्षुद् दुःखमनन्तसुखं विरोधि तस्येति चेत्, ___ अथ मन्येत - सुखदुःखयोविरोधः । न हि यत्र सुखं तत्र दुःखमेकत्र यौगपद्येनास्ति । क्षुच्च दुःखस्वरूपा । न ह्यन्यथा तत्प्रतीकाराय यत्येत । निवृत्तये हि यत्नो दुःखस्य भवति, सुखस्य प्राप्तये । भगवति चानन्तसुखं सर्वप्रदेशव्यापि अव्याहतमास्ते, तत् सन्निधीयमानं[43b] स्वविरुद्धं दुःखं निवर्तयति यथाग्निः शीतम् । तन्निवृत्तौ च तद्वयाप्यायाः क्षुधो निवृत्तिः । व्यापकनिवृत्तौ हि व्याप्यमवश्यं निवर्तते यथा शीतस्पर्शनिवृत्तौ तुषारस्पर्शः, अन्यथा तयोर्व्याप्यव्यापकभावाभावादिति ।
कुतस्त्यं तत् । सर्वपातकनिवृत्त्यात्मकमात्मावस्थानं यद्यनन्तसुखं तन्न भुक्तिवादिनस्तत्र सिद्धं क्षुदभ्युपगमात् । तत् सकलकर्मविप्रमुक्तायां निर्वेदनायां सिद्धावस्थायामेव, नार्हदवस्थायाम्, तत्र वेदनीयोदयसम्भवात् । असातोदयश्च
'गोत्तम्हि सत्त भंगा अट्ठ य भंगा हवंति वेदणिए। [दि. पञ्चसं० ५/१५] इति पठ्यते ।
१. सुमतिकीतिविरचितायां दिगम्बरपंचसंग्रहान्तर्गतसप्ततिकाटीकायामियं व्याख्यया सहेत्थं विलोक्यते
"गोवेसु सत्त भंगा अट्ठ य भंगा हवंति वेयणिए।
पण नव नव पण संखा आउचउक्के वि कमसो दु॥५॥१५॥ अथ गोत्र-वेदनीया-ज्युषां त्रिकसंयोगभङ्गान भक्त्वा गणस्थानेष योजयति। नीचोच्चगोत्रद्वयस्य असदशभजाः सप्त भवन्ति। सातासातवेदनीयद्वयस्यासदृशभङ्गा अष्टौ भवन्ति । नरकगतौ नारकायुषः असदृशभङ्गाः पंच भवन्ति, तिर्यग्गयां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org