________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् पलम्भादभावव्यवहारो यः सत्स्वन्येषूपलभ्भप्रत्ययेषु 'भावः स्वयं सन्नुपलभ्यत एव तस्य कारणान्तरसाकल्ये जा[40a]यमानादुपजायते, अन्यथा वस्तुसत्तायामनुपल स्वभावविप्रकर्षान्न तत्र तादृशोऽनुपलभ्भः प्रत्यक्षविनि ............ ऽन्यो विधीयमानो निषिध्यमानो वा स्यात् प्रकारान्तर ..................... रुद्धविधेरभावासिद्धेः । न ह्य विरुद्धो भावः स्वयं संनि ...... परस्परस्यानिवर्तकत्वात् । न ह्येतद् भवति नास्त्यत्र घ ........................ निषिध्यमानश्च भावस्तस्य का ......... [40b]मात्मरूपनिवर्तनसमर्थेऽविकले कारणे सत्यभाव .............. रणनिवृत्तिं गमयति न कारणमात्रनिवृत्तिम् । कारणमात्र ................................. यथा प्रासादादेस्तक्षादि किञ्चिदात्मस्थितेरपि यथा प्रव ................ यं निवर्तयति तदायत्तत्वात् तस्य । व्यापकमपि निवर्तमा ............... वृक्षः शिंशपाम् । न चान्यो निवर्तमानोऽन्यमात्मन्यप्र .............................. निवर्तनमभावस्य नियमेन नि .........
[नष्टानि न कर्माणि क्षुधो निमित्तं, विरोधिनो न गुणाः । ज्ञानादयो जिने किं सा संसारस्थिति स्ति ॥२॥ तम इव भासो वृद्धौ ज्ञानादीनां न तारतम्येन । क्षुद्धीयतेऽत्र]
....
...
[42a] यथा यथा ज्ञानादयो गुणा विवर्धन्ते तथा तथा क्षुधा तारतम्येन हातव्यं यथा प्रकाशवृद्धौ तमसा, अन्यथा विरोधासिद्धेः । न हि स्वप्रवृद्धयनुकारेणान्यत्र हानिमनादधानस्तस्य विरोधी भवति, यथा श्लेष्मादेर्दध्युपयोगादि । न चैवमिह प्राणिषु ज्ञानादिवृद्धयनुकारेण क्षुन्निवृत्तिरुप
१. "तत्रानुपलब्धिर्यथा न प्रदेशविशेषे क्वचिद् घटः, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति । उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च । यः स्वभावः सत्स्वन्येषूपलभ्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स स्वभावविशेष : ।२। १२-१४।” इति न्यायबिन्दौ द्वितीयपरिच्छेदे ॥
२. S प्रतौ चत्वारिंशत्तमं तालपत्रमर्धप्रायं खण्डितम् । अतो योऽशस्त्रुटितः स बिन्दुभिरत्र दर्शितः।। ३. विधि (?) ॥
४. S प्रतौ ४१ तमं सम्पूर्णमपि तालपत्रं न लभ्यते, अतः N. P. प्रती अवलम्ब्य [ ] एतच्चिह्नान्तर्गतः कारिकात्मक एव भागोत्र पूरितोऽस्माभिः॥
५. 'अन्वयेन' इति S मध्ये टिप्पनम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org