________________
॥अथ केवलिमुक्तिपरिच्छेदः ॥
[39a]एवं स्त्रीनिर्वाणं प्रतिपाद्येदानी केवलिभुक्ति प्रतिपिपादयिषुः पूर्ववद् बाधकप्रमाणाशङ्कापरिहारायोपक्रमते -
अस्ति च केवलिभुक्तिः समग्र हेतुर्यथा पुरा
नास्ति केवलिभुक्तिः 'विकलकारणत्वात् ' इत्य सिद्धो हेतुः । यत् पूर्वमकेवल्यवस्थायां भुक्तेः कारणं तत् केवल्यवस्थायामपि चिरं विहारिणो भगवतः केवलिनोऽविकलमास्त एव ।
द्विविधं भुक्तेः कारणम् – ३बाह्यमाभ्यन्तरं च । बाह्यं द्रव्यादि, तत् तावदास्ते, न तत्र विप्रतिपत्तिः । यस्त्वाभ्यन्तरः स
पर्याप्ति-वेद्य-तैजस-दीर्घायुष्कोक्यो हेतुः ॥ १॥
भुक्तस्याहारस्य तेजसा मृदूकृतस्य खलरसभावाद्युत्तरोत्तरपरिणामकारणं यतः शरीरेन्द्रियादिनिष्पत्तिः सा पर्याप्ति म कारणम्, वेदनीयं सुख-दुःखवेदनासाधनं कर्म, तैजसमन्तस्ते[39b]जःशरीरोष्मा यतो भुक्तपाकः, 'दीर्घमायुश्चिरजीवनं कर्म, एतदुदयात् क्षुद्वेदनोपजायते । नान्यस्य ज्ञानावरणीयादेरिह सामर्थ्यमवलोक्यते । पर्याप्त्याद्युदयश्च भगवति चिरविहारिणि विद्यत एव केवलिनि । एतदुत्तरत्र निर्देक्ष्यते । एवमन्तरङ्गहेतुतः क्षुधि प्रजातायां भुक्तिप्रवृत्तिरिति विकलकारणत्वमसिद्धम् ।
किञ्च, भुक्त्यभाववादिना तत्र केवलिनि क्षुदभावो वक्तव्यः, क्षुधि हठाच्चिरविहारिणो भुक्त्यापत्तेः । तत्र नैवागमः प्रसिद्धः 'नास्ति केवलिनि क्षुत्' इति यथा सिद्धेषु । तत्र प्रमाणान्तरान्निषेधः प्रवर्तमानः साक्षात् स्वभावानुपलभ्भादन्यतो वा प्रवर्तेत ? तत्र स्वभावानु
-
१. दृश्यतां पृ० १ टि० १॥ २. भुक्तिकारणं S॥ ३. बाह्यमभ्यन्तरं A ॥ ४. यस्त्वम्य० A || ५. जीवितं ॥ ६. पर्याप्त्यादयश्च भगवति चिरविहारिणि विद्युत एव S. ॥ ७. इतः परम् A प्रतिनं लभ्यते॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org