________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् किञ्च, मनुजगतौ सन्ति गुणाश्चतुर्दशेत्याद्यपि प्रमाणं स्यात् । पंवत स्त्रीणां सिद्धौ नापर्याप्तादिवद् बाधा ॥५३ ॥ मणुयगईए चोद्दस गुणट्ठाणाणि होंति, पंचेंदिएसु [चोद्दस ] गुणट्ठाणाणि होति, चोद्द[37b]स तसेसु मुणट्ठाणाणि होति, भवसिद्धिका य सव्वट्ठाणेसु होंति [
] इत्येवमाद्यपि प्रवचनं स्त्रीनिर्वाणे प्रमाणम्, स्त्रीणामपि पुंवद् मनुष्यगत्यादिधर्मयोगात् । ननु चेदं सामान्यविषयं कथं विशेषे स्त्रीविषये प्रमाणं स्यात्, तद्विशेषपरिहारेण विशेषान्तरे भावेऽपि तस्य सावकाशत्वादिति चेत्, तर्हि पुंविषयेऽपि मा भूत्, सोऽपि हि विशेष एव । अथ तस्मिन् विशेषे स्यात्, अत्र कः प्रद्वेषः ? न च विशेषे क्वचिदप्यभावे सामान्यविषयं प्रमाणमर्थवत् स्यात् । न च पुरुषेष्वर्थवत्ताकल्पनया स्त्रीषु तस्याप्रवृत्तिः शक्यते कल्पयितुम्, विपर्ययकल्पना[38a]या अपि प्रसङ्गात् । अतः पुरुषाणामिव स्त्रीणामप्ययमागमोऽविशेषेण चतुर्दश गुणस्थानानि प्रतिपादयन् स्त्रीनिर्वाणे प्रमाणमेव । न ३चैवमपर्याप्तमनुष्यादीनां देव-नारक-तिरश्चामपि निर्वाणप्रसङ्गः, तेषामेतद्वाक्याविषयत्वात् । उत्सर्गस्य हि नियमनिषेधेनापवादविधिविनिर्मुक्तो विषयो भवति, अन्यथा नियमाद्ययोगात् । अत्र च मिच्छविट्ठी अपज्जत्तगा [
'सुरनारएसु च तारि होति तिरिएसु जाण पंचेव [पंचसं० ४।१०] इत्यादिरपवादोऽवस्थितः । न चैवमायिकासु किञ्चिदुत्सर्गविधेनिवर्तकं वचनं प्रमाणान्तरं वास्ति । न च निवर्तकाभावे प्रवृत्तस्योत्सर्गस्य विनिवृत्तिरस्ति । अत ६आस्तामाहत्य स्त्रीनिर्वाणविधायी [38b]आगमः स्त्रीनिर्वाणे प्रमाणम् । अयं सामान्यविषयोऽप्यागमः पुंनिर्वाणवत् तत्र प्रमाणमेव बाधकाभावात् ।
उक्तार्थसंग्रहः - न चे बाधकं विमुक्तेः स्त्रीणामनुशासनं प्रवचनं च ।। संभवति च मुख्येऽर्थे न गौण इत्यायिकासिद्धिः ॥ ५४ ॥
स्त्रीणां नास्त्येव निर्वाणमिति न शक्यं प्रतिपत्तुं बाधकप्रमाणाभावात्, तदायत्तो हि नास्तिताव्यवहारः । अस्तित्वे तु तस्यागमः प्रमाणमुक्तम् । न च तत्र स्त्रीशब्दस्यान्योऽर्थः शक्यते कल्पयितुं तत्र प्रमाणाभावात् । न हि तत्र मुख्यार्थासम्भवप्रतिपत्तिमन्तरेण गौणार्थकल्पनास्ति । गौणश्च स्त्रीशब्दस्य पुमर्थः । तस्मानिःश्रेयसकामेनाविपरीतं शास्त्रार्थ प्रतिपद्यमानेन अवश्य स्त्रीनिर्वाणं प्रतिपत्तव्यम् ।।
___ इति स्त्रीनिर्वाणपरिच्छेदः समाप्तः ।।
१. नापर्याप्त्यादि० A॥ २. भवसिद्धिया सव्वठाणा भवंति A || ३. "मपर्याप्तकमनु० A || ४. नियमनिषेधादविधि A ॥
५. दृश्यतां पृ० १४ टि० २॥ ६. अर्हतामाहत्य S | ७. स्त्रीशब्दः पुमर्थः ॥ ८. शुभं भवतु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org