________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम्
यद्येवम्, निष्प्रमाण एवाकारान्तरे वेदान्तरोदयाभ्युपगमः, अगम्यमानविषयत्वात् । न चात्रागमः प्रमाणमस्ति । प्रत्यक्षानुमाने लोकस्यापि तुल्ये न तत्र गतिरिति । तथा विवाहादिप्रसङ्गः ।
ननु च नामकर्मणः शरीरनिष्पत्तिः, वेदो नाम मोहनीयोदयः । क[36a]स्तत्र प्रतिबन्धो येन विशिष्टो वेदो विशिष्ट एव शरीराकारे स्यात्, न सर्वः सर्वत्रेति ? उच्यते -
पञ्चेन्द्रियाधुदयवत् सुरनरगत्यादिकर्मणामुदयः । वेदस्य तत्तदङ्गे नपुंसकादिवदु नरकादौ ॥५०॥
यथा भिन्नकर्मत्वेऽपि कुतश्चित् प्रतिबन्धात् पञ्चेन्द्रियजात्यादिकर्मोदये एव देवमनुष्यगत्यादिकर्मणामुदयः, अन्यथा सुरनरादीनामनिन्द्रियता एकेन्द्रियादिता वा स्यात् । वेदस्यापि यथा नारकगत्युदये नपुंसकस्यैवोदयः, देवगत्युदये स्त्रीपुंसयोरेव, अहमिन्द्रेषु च पुंवेदस्यैव, एकेन्द्रिय-विकलेन्द्रियोदये च नपुंसकस्यैव, तथा पुमादिशरीरेष्वेव पुमादिवे[36b]दोदयः सम्भाव्यते तथा दर्शनात् । उ इति पादपूरणे ।
तथा - नाम तदिन्द्रियलब्धेरिन्द्रियनिर्वृत्तिमिव पुमाद्यङ्गम् । वेदोदयाद् विरचयेदित्यतदङ्ग न तद्वेदः ॥५१॥
नामकर्मापि यथा तत्तदिन्द्रियनिर्वृत्तिमावरणक्षयोपशमजन्मानं तत्तदिन्द्रियलब्धि प्राप्यैव करोति तथा पुवेदाधुदयादेव पुंशरीरादिनिष्पत्ति कुर्यादिति सम्भाव्यते नियमोपलम्भादेवेति नापुमाद्यङ्गे पुवेदाधुदयः ।। ____ यदि पुमादिशरीर एव पुंवेदाधुदयः कथं पुमादीनां 'पुमादिषु 'स्त्र्यादिष्विव प्रवृत्तिरिति चेत्, उच्यते --
या पुंसि च प्रवृत्तिः पुंसः स्त्रीवत् स्त्रियाः स्त्रियां च स्यात् । सा स्वक[37a]वेदात् तिर्यग्वदलाभे ३मत्तकामिन्याः ।। ५२ ॥४
सा प्रवृत्तिः पुमादीनां पुमादिवेदोदयादेव स्यात्, न स्त्र्यादिवेदोदयात् । यथा मत्तकामिन्यलाभे गोपालादीनां कामितया तिर्यक्षु प्रवृत्तिरुपलभ्यते न सा तेषां तिर्यग्भावेन, अपि तु मनुष्यभावेनैव, तथात्रापि स्यात् । अनेकावस्थो हि वेदोदयः स्यात् । तन्न तत्प्रवृत्त्या पुंसि वेदान्तरोदयकल्पनया स्त्रीनिर्वाणवाक्यनीतिरुपपद्यते ।
१. इत आरभ्य केवलं पत्रत्रयमित्ता सटीका A प्रतिरप्युपलभ्यते ।। ..२. स्त्रियादि. A.S. ॥
३. मत्तकाशिन्याः S॥
४. S प्रतौ कुत्रचिदपि कारिकाको नास्ति । केवलम् A प्रतावित आरभ्य तिसृणां कारिकाणाम् ५२, ५३, ५४ इति संख्याका निर्दिष्टा दृश्यन्ते । तदनुसारेणैव सर्वासां प्राक्तनीनां कारिकाणां संख्याका अस्माभिनिदिष्टा इति ध्येयम् ।।
५. मत्तकाशिन्यते॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org