________________
शाकटायनाचार्यप्रणोतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् स भाव आसंसारमेकस्मिन् जीवे नियतो नेष्यते पुंसां स्त्रीत्वस्य स्त्रीणां च पुंस्त्वस्य देहान्तरे श्रवणात् । एकस्मिन् पुनर्देहे यदि यावज्जीवं पुंसि स्त्रीत्वमिष्यते तत्र[33b]प्रमाणं वक्तव्यम्, न ह्यत्र प्रत्यक्षमनुमानमागमो वा दृश्यते, यदालम्बनः पुंसि 'स्त्री' इत्युपचारो न स यावज्जीवं नियतो दृश्यते । य एव हि क्लीबतादिसादृश्यात् 'स्त्री' इत्युपचरितः स एव पुनरन्यदा दृष्टपुरुषकारः ‘सिंहः पुरुषोऽयम्' इत्युच्यते । भवन्ति च क्वचिद् भीरवः क्वचिच्छूराः । ततः पुंसां स्त्रीत्वानिर्णये न तत् स्त्रीत्वं यावज्जीवं स्यात्, तस्य यावज्जीवमनवस्थानात् विपरीतस्यापि भावात् न ततः स्त्रीवेदनिर्णयः, पुंवेदेऽपि कुतश्चित् सादृश्यादुपचारोपपत्तेः, भवन्नपि अनवस्थित एव स्यात् तत्र ।
स्त्रीत्व-पुंस्त्वाभ्यामेककर्मवद्रव्यमुपलक्ष्यत इत्यन्यतरेणैवोपलक्षितत्वादिति चेत्, अनर्थकम्,
अनडुह्याऽनड्वाहीं दृष्ट्वा[5 नड्वाहमनडुहाऽऽरूढम् । स्त्रीपुंसेतरवेदो वेद्यो नाऽनियमतो वृत्तेः ॥ ४७ ॥ विगतानुवादनीतौ सुर-कोपादिषु चतुर्दश गुणाः स्युः । न च मार्गणान्तर इति प्रोक्तं वेदेऽन्यथा नीतिः ॥४८॥]
[35a]तत्रापि वेदवच्चतुर्दश गुणस्थानानि प्रसज्येरन् । न चैवं नीयते । न च क्वचिद् मार्गणान्तर एवं नीतिर्दृश्यते । सर्वत्र हि यावद्भावमेवमेव नीतिः । को वा विशेषो येन विगतेऽपि वेदे नीयते, न मार्गणान्तरे? तस्माद् ग्रन्थच्छायापि नेया ।
वेदेऽन्यथा नीतिः । वेदमार्गणावसरे गुणस्थानानि नवैवोच्यन्ते । इति मनुषीषु मनुष्येषु च चतुर्दश गुणस्थानानीति न वेदाश्रयेण, अपि त्वाकारमेवाश्रित्य यस्य सर्वत्र सम्भवः ।
स्त्रीपुंसयोद्वैते व्यवहारानुपपत्तिः, पुंसि स्त्रियां स्त्रियां पुंस्यन्तश्च तथा भवेद् विवाहादिः । यतिषु न संवासादिः स्यात्
यद्याकारेण स्त्र्यप्यन्तः पुरुषः पुरुषोऽप्यन्तः स्त्री तद्वेदोदयात् तथा सति[35b]लोकलोकोत्तरव्यवहारलोपः । लोके विवाहादिव्यवहारस्तथा प्रसज्येत - स्त्रियाः स्त्रिया पुरुषस्य पुरुषेण सह विवाह इति । लोकोत्तरश्च संवासादिर्नोपपद्यते, न हि समये स्त्रीणां पुरुषाणां च सहसंवासादिरस्ति । "तस्मान्न । वेदोदयस्यागम्यत्वादेवं व्यवहार इति चेत्,
स्यादगतौ निष्प्रमाणेष्टिः ॥४९॥
१. 'क्लीबतादेः' इति टिप्पन्याम् S ॥
२. " स्यात् । तन्न त्रीत्व-पुंस्त्वाभ्यामेककर्मवद् द्रव्यमुपलक्ष्यत इति । अन्यतरेणैवोपलक्षितत्वादिति चेत्, अनर्थकम् ", इत्थमपि पाठोऽत्र भवेदिति सम्भाव्यते ।।
३. अनडुह्यss |
४. इत आरभ्य एकं समग्रमपि ३४ तमं तालपत्रं S प्रतौ नास्ति । अतः N. P. प्रती अवलम्ब्य [ ] एतदन्तर्गतः कारिकारूप एव भागः पूरितोऽस्माभिः ।।
५. 'तस्मान पुरुष स्त्रीवेदोदयः' इत्यर्थो भाति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org