________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् अहो दुनिखातस्योपरि निखातः, सति हि मुख्य स्तन-जघनादिलक्षणे स्त्र्यर्थे बाधके, श्मश्रु-मेहनादिलक्षणे पुमर्थे तत्र स्त्रीवेदस्य तावदसम्भवः, पुंसि भवतः पुंवेदवत् स्त्रीवेदत्वविरोधात् । नहि क्रोधादयः स्त्रियां पुंसि वाऽविशेषेण भवन्तः स्त्र्यादिभिविशिष्यन्ते । अभ्युपगमेऽपि पुंसि ३तद्वेदोदयस्य न ततः स्त्रीशब्दस्य पुंसि वृत्तिः, स्तन-प्रजनवौदिमदाकारस्य स्त्रीशब्दप्रवृत्तिनि[32a]मित्तस्य तत्राभावात् । तदाकारदर्शनादेव चायं स्त्रीशब्दः प्रयुज्यते लोके, न वेददर्शनात् । चित्रादौ च वेदाभावः । 'स्त्रीनिर्वाणं नास्ति' इति त्वयापि स्त्रीशब्दस्तदाकार एव प्रयुज्यते, वेदे निर्वाणाभ्युपगमात् । तत्र चैकार्थसमवायिनो वेदात् स्त्रीशब्दप्रवृत्तिरुपचारात्, पुनस्तदभावे भूतपूर्वगत्याश्रयेण स्त्रीत्वमित्युपचरितस्योपचारात् । तत्रासति मुख्यार्थबाधने पूर्व एवोपचारस्तावन्न' युक्तः, द्वितीयस्य पुनरुपचारस्यायुक्तिः प्रकर्षमुद्वहति, उपचाराश्रयेऽपि सत्तायोगस्तस्य सः । आगमः स्त्रीनिर्वाणे प्रमाणमुपन्यस्यते
मनुषीषु मनुष्येषु च चतुर्दशगु[32b]णोक्तिरायिकासिद्धौ प्रमाणम् ।
मनुषीषु मनुष्येषु च पृथक् चतुर्दश स्थानानि शिष्यन्ते । तत्र यदि ‘मनुषीषु' इत्यपि मनुष्या एवोच्यन्ते 'मनुष्येषु चतुर्दश गुणस्थानानि भवन्ति' इत्येव गतत्वात् 'मनुषीषु चतुदश गुणस्थानानि' इत्यनर्थकम् । न हि ते न मनुष्या भवन्ति ये त्वया ‘मनुषीषु' इत्युच्यन्ते, तेषामपि पुंस्त्वात् । तस्माद् — मनुषीषु' इति स्तन-प्रजनवौदिमत्योऽपुरुषाः स्त्रिय एवोच्यन्ते । तत्र 'मनुष्येषु' इति लिङ्ग विवक्ष्यते इति 'मनुषीषु' इत्यर्थवद् भवति । तदेतज्जीवस्थाने मनुषीषु मनुष्येषु इति च चतुर्दशानां गुणस्थानानामनुशासनमार्यिका[33a]निर्वाणे प्रमाणम् । __ यदि च मनुषीषु मनुष्येषु इति च भावनिबन्धनोक्तिः
भावस्तवोपरिक्षयी
तवाभिमतो वेदलक्षणो भावः अनिवृत्तिबादरसम्परायप्रविष्टनवमगुणस्थान एव क्षीयमाण: ततः परं नैव विद्यते, कथं तत्र चतुर्दशगुणोक्तिरुपपद्यते ।
'मनुषीषु मनुष्येषु' इति च न भावप्रधानो निर्देशः, अपि तु तदुपलक्षितद्रव्यविषयः, तत्र गुणोक्तिरुपपद्यते इति चेत्,
९अनवस्थोऽनियत उपचारः ॥ ४६ ॥
१. स्मश्रु S॥ २. तहि S॥ ३. तद्वदोयस्य C॥ ४. 'वेदात्' इति टिप्पन्याम् ॥ ५. तावत् युक्तः । (तावदयुक्तः?) ।
६. एतस्योपरि = ईदृशं चिह्नं कृत्वा व्याख्यारूपम् 'उपचारात्' इति टिप्पनं S प्रतावधस्ताद् वर्तते । एवं च 'उपचाराश्रयेऽपि सत्तायोग उपचारात् तस्य सः' इत्यर्थः प्रतीयते ॥
७. 'स आगमः' इत्यपि सम्बन्धो भवेत् ।। ८. माणे ॥ ९. अनवस्थेऽनियत S |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org