________________
३४
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् भावो नाम ते स्त्रीवेदोदयः । न च पुंशरीरे स विद्यते इत्यत्र प्रमाणमस्तीति स्त्रीनिर्वाणवाक्येभ्यः स्तन-प्रजनवादिमत्या एव निर्वाणसिद्धिः । किञ्च,
अङ्गं च । भावः सिद्धौ
यदि यः स्त्रियां भावः स एव पुंसि भवति तेन च 'पुमान् मुच्यते स भावो मोक्षस्याप्रतिबन्धकः, मोक्षस्य च साक्षाद् भावः कारणम्, परिणामशुद्धया हि मुच्यन्ते, अन्यत् पुनर्भावोपग्राहितया परम्परया मोक्ष उपयुज्यते । एवं चैतेन परिणामेन पंवत् स्त्र्यपि मोक्षमर्हति । न हि तदाका[30b] रस्य मोक्षप्रतिबन्धित्वेन सामर्थ्यमन्वयव्यतिरेकाभ्यामवधारितं यथाऽग्न्यादीनां शीतादौ येन तदकारयोगात् मोक्षाभावः स्यात् । ___यद्यपि स्त्रीवेदस्य कर्मक्षपणां प्रति विरोधोऽङ्गीक्रियते तच्छरीरव्यभिचारिवेदवादिनस्तथापि न स्त्रीनिर्वाणाभावः, यतः
पुंवत् पुमान् स्त्र्यपि यथा पुंसि स्त्रीवेदः एवं स्त्रियामपि पुंवेदः स्यात् । न ह्यत्र ते किञ्चिन्नियामकमस्ति येन स्त्रियां न पुंवेदः स्यात् । ततश्च स्त्रीशरीरेणैव पुमान् भूत्वा सिध्यति । उत्कृष्टं हि ते स्त्रीसत्त्वात् पुंसत्त्वम्, सत्त्वं च भावः, यदि स्त्रीसत्त्वेन पुमान् मुच्यते पुंसत्वेन स्त्री किं न [31a]मुच्यत इति स्त्रीनिर्वाणसिद्धिः । यदि च स्त्रीनिर्वाणवाक्येषु स्त्रीशब्दो नाकारमुपादाय प्रवृत्तोऽपि तु वेदं तन्न युज्यते । यतः
न सिध्यतो वेदः ॥ ४४ ॥ अनिवृत्तिबादरसम्परायप्रविष्टक्षपके नवमगणस्थान एव वेदक्षपणाऽधीयते । अतो न सिध्यत्काले वेदाश्रयस्त्र्यादिव्यवहारमभ्युपगच्छतः स्त्री पुमान् वा स जीव इति तदयोगः ।।
क्षपकश्रेण्यारोहे वेदेनोच्येत भूतपूर्वेण । स्त्रीति
अथोच्यते - यद्यपि निर्वाणकाले नास्ति वेदः, अनिवृत्तिस्थान एव क्षयात्, तथापि क्षपक-२ श्रेणीमारोहन् कश्चित्[31b]स्त्रीवेदेनारोहति तदासौ स्त्री भवति, तेन निर्वाणकाले भूतपूर्वेण 'स्त्री' इत्युच्यते यथा रेचितघृतघटोऽपि घृतघट इति भूतपूर्वगत्योच्यते द्रव्यनयालम्बनेनेति ।
नितराममुख्ये मुख्येऽर्थे युज्यते नतराम् ॥ ४५ ॥
१. पुमानुच्यते ॥ २. श्रेणीनामा० ॥ ३. तदसौ S ॥ ४. लम्बनेति Sh
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org