________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम्
अथैवं मन्येत --
भुक्तिर्दोषो यदुपोष्यते न दोषश्च भवति निर्दोषे ।
निर्दोषः केवली, भुक्तिश्च दोषः, यदुपवासादि प्रत्याख्यानं क्रियते । दोषश्च न निर्दोषे युक्तः कल्पयितुमिति ।
नैतद् युक्तम्,
इति निगदतो निषद्याद्यर्हति न स्थानयोगादेः ॥२९॥ एवं ब्रुवाणस्य निषद्या गमनमिति चाहति न स्यात्, स्थानयोगादिना निषद्यादेः प्रत्याख्यानात् । वचनमपि न स्यात्, मौनव्रतिकोपलम्भात् । शरीरस्याप्यन्ते परित्यागात् तदभावोऽपि प्रसज्येत ।
यथा वेदनी[57b]योदयजन्मानो रोगादयः परीषहाः क्वचिन्न भवन्ति तथा क्षुदपि क्वचित् सत्यपि वेदनीयोदये न स्यादिति चेत्, न,
रोगादिवत् क्षुधो न व्यभिचारो वेदनीयजन्मायाः । प्राणिनि
वेदनीयजन्मनो रोगादिवत् क्षुधो वेदनीयोदये सति नाभावः शक्यः कल्पयितुम्, रोगादिवत् क्षुधः क्वचिदपि प्राणिनि व्यभिचाराभावात् । देवेषु भोगभूमिजेषु तीर्थकरादिषु वा जन्मतो रोगाभावः श्रूयते, अद्यापीह केचिदरोगाः दृश्यन्ते, न क्षुधः क्वचित् प्राणिनि आसंसारं व्यभिचारोऽस्ति ।
अन्यत्र व्यभिचाराभावेऽपि अत्र व्यभिचारः स्यादिति चेत्, न, प्रमाणाभावात् ।
भावे किं [58a] प्रमाणम् ? न अन्यत्र व्यभिचाराभाव एव प्रमाणम्, अन्यत्र व्यभिचाराभावेऽपि व्यभिचारदर्शनात् 'पक्वान्येतानि फलानि, एतच्छाखाप्रभवत्वात्, उपयुक्तफलवत् । पक्वा एते तण्डुलाः, एतत्स्थाल्यन्तर्गतत्वात्, उद्धृततण्डुलवत् । लोहलेख्यं व्रजम्, पार्थिवत्वात्, घटवत् । स श्यामः, तत्पुत्रत्वात्, इतरतत्पुत्रवत् ।' इत्यादौ तथा मिथ्यादृष्ट्यादिषु गुणस्थानेषु अव्यभिचाराणां मिथ्यादर्शनादीनामुत्तरगुणस्थानेष्वभावः । तदन्यत्राव्यभिचारेऽपि तत्र तद्भावमिच्छता तत्र तद्भावे प्रमाणं वक्तव्यम् । नावश्यं कारणानि कार्यवन्ति भवन्तीति न वेदनीयोदयः प्रमाणं भवति ।
उच्यते - अविकलं [58b] कारणं कार्यं गमयति, तस्य तद्भावनिष्ठत्वात् । दर्शितं छद्मस्थवत् तत्र क्षुधः कारणावैकल्यम् । किञ्च,
एकादश जिन इति जिनसामान्यविषयं च ॥३०॥
१. .ष्येत SH
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org