________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् एकादश जिने [ तत्त्वार्थ ० ९/११] इति जिनसामान्यविषयमेतत्, न प्रविभागगोचरम्, 'अत्रेयत् क्षुत्पिपासाद्यस्ति, न सर्वभावः, क्वचित् कस्यचिद् भावेन सामान्ये सर्वभावो भवतीति न विरोधः । ननु च
सीउसिण छुहा तण्हा तणफासनिसिज्जजल्लवहचरिया। दंसमसगं च रोगा एक्कारस वेयणीयं ही[
ति। शीतादयः परीसहा वेदनीयजन्मानः पठ्यन्ते । वेदनीयं च कर्म केवलिन्यस्तीति कारणसद्भावात् ते तत्र सन्तीत्युपचारेणोच्यते । 'एकादश जिने न [59a] सन्ति' इति च ननं केचित् तत्राध्याहरन्ति
तद्धे तुकर्मभावात् परीषहोक्तिर्न जिन 'उपस्कार्या । नञ् नाऽभावासिद्धेः
प्रमाणेन चेद् यथाश्रुतमर्थः शास्त्रस्य बाध्यते तदोपचारकल्पनाऽध्याहारो वा भवति, अन्यथाऽतिप्रसङ्गात् । अत्र च तेषामभावः प्रमाणेन न प्रतिपन्न इति यथाश्रुतत्यागेनोपचारकल्पनाऽध्याहारो वा न युज्यते ।
इत्यादेन[:] क्षुदादिगतिः ॥३१॥ एवमादेरागमादस्माकं केवलिनि क्षुत्पिपासाप्यस्तीति ।
सर्वज्ञस्य भुक्तिर्न भवति, अन्तरायोपपत्तेः, न हि सकलं पश्यन् मांसादि न पश्यति । परमावधियुक्तस्य छद्मस्थस्येव नान्तरायोऽपि । सर्वार्थदर्शने स्यात् कप्पजुगाऽसंखा बहू . . . (?) [59b]सोही नरस्सऽणुबिइयेति
छद्मस्था अपि महर्षयोऽवधिज्ञानिन: सकलं त्रैलोक्यं पश्यन्ति अथ च भुञ्जते । यथा न तेषामन्तरायस्तद्वत् केवलिनोऽपि स्यात् । इन्द्रियगोचर एव ह्यन्तरायः ।
न चान्यथा पूर्वमपि भुक्तिः , ॥ ३२॥ यद्येवं नेष्यते तीर्थकरपरमदेवस्य छद्मस्थकालेऽपि सति श्रुतावधिमनःपर्ययधरस्य सकलं जगत् पश्यतः परमर्षे क्तिर्न स्यात् । न चावधिज्ञानोपयोगमवधिज्ञानी न करोतीति शक्यं
१. S प्रतौ अत्रे इत्यक्षरद्वयं घृष्टप्रायत्वादस्पष्टं कष्टेन सम्भावितमस्माभिः। किञ्चित् सन्दिग्धं तत् ॥
२. अत्रS प्रतौ घृष्टान्यक्षराणि तथापि कथञ्चित् 'उपस्कार्यो' इति पठितुं शक्यते। N. P. प्रत्योरपि उपस्कार्य: इति पाठः॥
३. S प्रतौ इतः परं द्वित्राण्यक्षराण्यतीव घृष्टत्वात् सम्यक् पठितुं न शक्यन्ते। (णाउं?) इत्यादयः पाठाः यथायो सम्भावनीया अत्र सुधीभिः॥
४. अणोद्वितीये परमे इत्यर्थः कदाचित् स्यात् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org