________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम्
वक्तुम्, अनिन्द्रियगोचरस्याप्यन्तरायत्वे इन्द्रियगोचरवदुपयोगेन भवितव्यम्, अन्यथेन्द्रियविषयत्वमपि मा भूत् ।
यदि भुङ्क्ते केवली तस्य मतिज्ञानप्रसङ्गः विषयिविष [60a ] यसम्बन्धात् । न च केवलिनो मतिज्ञानमस्ति ।
इन्द्रियविषयप्राप्तौ यदभिनिबोधप्रसञ्जनं भुक्तौ । तच्छब्द-रूप- गन्ध-स्पर्शप्राप्त्याप्रतिक्षिप्तम् ।। ३३ ।।
नेन्द्रियविषयप्राप्तिसम्बन्धमात्रेण मतिज्ञानं भवति । कथं तर्हि ? इन्द्रियविषयसम्बन्धेन मतिज्ञानावरणीयस्य कर्मणः क्षयोपशमे सति प्रादुर्भावात् । तथा च पठन्ति - तदिन्द्रियानिन्द्रियनिमित्तम् [ तत्त्वार्थं १/१४ ] इति । न च केवलिनः प्रक्षीणाशेषावरणस्य तथाविधं ज्ञानमिति । यथा श्रोत्रादीनामिन्द्रियाणां दिव्यतूर्यादिरवेण गणधरदेवादिरूपेण सुगन्धिकुसुमधूपादिवासादिगन्धेन मरुत्सिहासनादिस्पर्शेन योगेऽपि न मतिज्ञानं भवति तथा जिह्वारसप्राप्तावपि ।
भुक्तौ कथं मलचिन्तेति चेत्
छद्मस्थे तीर्थकरे विष्वणनानन्तरं च के [60b]वलिनि ।
चिन्ता मलप्रवृत्तौ या सैवात्रापि भुक्तवति ॥ ३४ ॥ नित्यं निःस्वेदत्वं (त्व) निर्मलते तीर्थकरपरमदेवस्य [
इति छद्मस्थावस्थायामपि मलाभावं पठन्ति ।
५१
नत्थि कालो कालो वा सायमाणस्स भिक्खुणो [
]
इति भोजनानन्तरं च केवलज्ञानोदयमभ्युपगच्छति केवलिनश्च भुक्तौ मलप्रसङ्गं चोदयतीति अहो महामोहः !
एवं न केवलिनि भुक्तेर्बाधकमस्ति प्रमाणम् ।
[विग्रहगतिमापन्नाद्यागमवचनं च सर्वमेतस्मिन् ।
भुक्ति ब्रवीति तस्माद् द्रष्टव्या केवलिनि भुक्तिः ।। ३५ ।। ] ४
विग्गहगय सिद्धा य अणाहारा सेसा आहारया जीवा । सुहुर्भोगिदियपहुइ जाव सजोगिकेवलित्ति सव्वे आहारया जीवा [ ]
इति चागमः केवलिनि विस्पष्टं भुक्तिमाचष्टे । तस्मात् केवलिभुक्तिरभ्युपगन्तव्या । नात्र व्यामोहः कर्तव्यः ।
१. भवतिभव्यं । २. विष्वणनं भोजनमित्यर्थः ॥ ३. 'निःस्वेदत्वं निर्मलता' इत्यपि पाठोऽत्र सम्भवेत् ।।
४. N. P. प्रती अवलम्ब्य पूरितेयं कारिकास्माभिः ॥
५. “ विग्गहगइमावना केवलिणो समुहना अजोगी य। सिद्धा य अणाहारा सेसा आहारया जीवा ।। " इति जीवसमासे [गा० ८२] दिगम्बरीये पञ्चसंग्रहे [१ । १७७] च ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org