Book Title: Stree Nirvan Kevalibhukti Prakarane Tika Author(s): Shaktayanacharya, Jambuvijay Publisher: Atmanand Jain SabhaPage 82
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् अस्मदादीनामाहारेण विना कायस्थितिर्न भवति, स पुनर्भगवान् केवली वीर्यान्तरायापायविजृम्भितानन्तवीर्यलब्धिः, ततो विनाप्याहारेणास्य कायस्थितिर्भवतीति चेत्, न, आयुरिवाभ्यवहारो जीवनहेतु विनाभ्यवहृतेश्चेत् । तिष्ठत्यनन्तवीर्यो विनायुषा[s]कालमपि तिष्ठेत् ॥ २३ ॥ आयुष्कर्मवदाहारोऽपि कायस्थितिकार[54a]णम् । तत्र यद्यनन्तवीर्यत्वाद् विनाहारेण कायस्थितिः स्यात् तहिं विनायुष्केणापि कर्मणा स्यात्, ततश्च न कदाचिच्छरीरवियोग इति मुक्त्यभावप्रसङ्गः । आयुरपेक्षायामेवमाहारापेक्षाप्यस्तु । न ह्यनन्तं वीर्य कायस्थितावाहारकारणे निरपेक्षमन्यत्र सापेक्षमित्यत्र प्रमाणमुपलभामहे । किञ्च, न ज्ञानवदुपयोगो वीर्ये, कर्मक्षयेण लब्धिस्तु । तत्रायुरिवाहारोऽपेक्ष्येत न तत्र बाधास्ति ॥ २४ ॥ अन्तरायक्षयाद् यथावरणक्षयाज्ज्ञानदर्शनोपयोगावेव भवतस्तथा न वीर्योपयोगः, लब्धिस्तु केवला भवति, उपयोगस्तु स्वभावे निमित्तान्तरमपेक्षते, अन्यथा सिद्धानामपि[54b] 'स्यात्, तथा च तत्र सर्वज्ञानोपयोगवत् सर्वव्यापारप्रसङ्गः । तथा च पठन्ति -- विरियंतरायदेसक्खएण सव्वक्खएण वा लद्धी। अभिसंधिजमियरं वा तत्तो विरियं सलेसस्स ।। सिद्धाण विरियलद्धी लद्धिसविरिया य सव्वसंसारी। सेलेसीकरणेणं अविरिय सविरिया य जोगजुया ॥ [ ] इति । तत्र निमित्तान्तरापेक्षायां शरीरधारणे आयुर्वदभ्यवहारस्यापि दृष्टसामर्थ्यस्यापेक्षास्तु, न तत्र किञ्चिद् बाधकं पश्यामः । अथैवं मन्येत -- तच्छद्मस्थकाले भुक्तेनाहारेण सर्वज्ञकालेऽपि कायस्थितिः स्यात, त(य)थेदानी पूर्वगृहीतेनाहारेण मासं चत्वारिंशतं वा दिवसाना[55a]दितीर्थे च वर्ष मध्यमतीर्थेषु च षण्मासानिति । मासं वर्ष वापि च तानि शरीराणि तेन भुक्तेन । तिष्ठन्ति न चाऽऽकालं, न चान्यथा पूर्वमपि भुक्तिः ॥ २५ ॥ __ किं तान्येव शरीराणि विनाहारेण सर्वज्ञकाले स्थितौ मूलमुतान्यत् किञ्चित् तत् ? यदि अन्यत्, तन्न ज्ञानादि कारणम् उक्तवत् । यदि तान्येव शरीराणि, केवलिकालात् पूर्वमपि तथा १. अस्मिस्ताल पत्रे मध्ये रिक्तभागे केनचिदधस्तादेवं लिखितमस्ति --"श्रीज्ञानवर्धनगणयः मासचतुष्टयान्तराचार्या भविव्यंति निश्चितं श्री २४ त् प्रसादात् ।” एतत्पुस्तकस्वाम्यादिना केनचिदेतल्लिखितमिति संभाव्यते ।। २. वाकाले Su Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146