Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 80
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् 'उदयः फलं न तस्मिन्नुदीरणेत्यफलता न वेद्यस्य । नोदीरणा फलात्मा तथा भवेदायुरप्यफलम् ॥ १४ ॥ अनुदीर्णवेद्य इति चेद् न क्षुद्, वीर्य किमत्र, न हि वीर्यम् । क्षुदभावे, क्षुदभावे न स्थित्य, क्षुधि तनोविलयः ॥१५॥ अपवर्तते[5] कृतार्थ नायुर्ज्ञानादयो न हीयन्ते ।। जगदुपकृतावनन्तं वीर्य किं गततृषो भुक्तिः ॥१६॥ [51a][ न ज्ञानादिक्षयः, न च वीतमोहस्य रसगृद्धिरस्ति । तन्नास्य भोजने किञ्चित् प्रयोजनमुपलभामहे । न च विना प्रयोजनेन प्रेक्षावतामस्ति प्रवृत्तिरिति न केवलिभुक्तिः । उच्यते-- ज्ञानाद्यलयेऽपि जिनेऽमोहेऽपि स्यात् क्षुदुद्गते भुक्तिः । यदप्युक्तं 'न ज्ञानादिक्षयो वीतमोहत्वाच्च न रसगृद्धिः' तथापि क्षुदुद्गते भवति भुक्तिः, दीर्घकालविहरणात्, अन्यथा तदयोगात् । भवति च रागेण विनौषधपानादिवत् प्रयोजनापेक्षया भुक्तिः, यथा समुद्घातध्यानयोगेन कर्मक्षपणे यत्नः । न च भोजने प्रयोजनं नास्ति । वचनगमनादिवच्च प्रयोजनं स्वपरसिद्धिः स्यात् ॥१७॥ वचनगमनस्थानासनोत्थानादि[51b]षु क्रियान्तरेषु भगवतः केवलिनो यत् प्रयोजनमभ्युपगम्यते स्वसिद्धिः परसिद्धिर्वा तदेव भुक्तिक्रियायामपि प्रयोजनं स्यात् । तथाहि - ध्यानस्य समुच्छिन्नक्रियस्य चरमक्षणे गते सिद्धिः । सा नेदानीमस्ति, स्वस्य परेषां च कर्तव्या ॥१८॥ अयोगिकेवलिनि समच्छिन्नक्रियाऽप्रतिपाति शुक्लध्यानं भवति, तस्य चरमक्षणे गते सिद्धिर्भवति । सा नेदानीमुत्कर्षेण देशोनपूर्वकोटिं विहरति सयोगकेवलिनि भगवतीत्यात्मनः कर्तव्या परेषां च भव्यानाम् । अतस्तत्सिद्धिः प्रयोजनं स्यात् । ननूक्तम् --- अनपवर्तायुः, तत एव तत्सिद्धिर्भवतीति । रत्नत्रयेण मु[52a]क्तिर्न विना तेनास्ति चरमदेहस्य । भुक्त्या तथा तनोः स्थितिरायुषि नन्वनपव]ऽपि ॥१९॥ १. उदयं P॥ २. 'क्षदभावो न स्थित्यै' इत्यपि पाठोऽत्र साधुर्भवेत् ।। ३. चरमे NU Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146