Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 79
________________ ४४ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् तत्प्रतिविधानकाङ्क्षा तु । मूढस्य भवति मोहात् तया भृशं बाध्यमानस्य ॥८॥ न क्षुत् स्वयमग्निदाहादितुल्या मोहः । या तु तत्र क्षुत्प्रतिकारिण्यशनपानादौ शीतोष्णबाधाप्रतिकारिणीव वस्तुनि काङ्क्षा सा मोहः, न क्षुत्, क्षुत्कार्यं तु । सापि यस्य मोहनीयं कर्मास्ति तस्य क्षुधा भृशं बाध्यमानस्य तद्धीप्रवृद्धमोहोदयस्य मोहादुपजायते, क्षुत् तत्र तदुबोधने व्याप्रियते । भगवतस्तु क्षुधि समुपजातायामपि मोहनीयाभावाद् मोहरूपा काङ्क्षा नोपजायते, काङ्क्षाकार्यविनिर्मुक्ता केवला क्षुदेव निर्धूम इव पावकः समवतिष्ठते यदि न नष्टकर्म ... [तैजसमृदूकृतस्य द्रव्यस्याभ्यवहृतस्य पर्याप्त्या । ३उत्तरपरिणामे क्षुत् क्रमेण, भगवति च तत् सर्वम् ॥९॥ ज्ञानावरणीयादेर्शानावरणादि कर्मणः कार्यम् । क्षुत् 'तद्विलक्षणा,ऽस्यां न तस्य सहकारिभावोऽपि ॥१०॥ ५क्षुद्बाधिते न जाने न चेक्ष इत्यस्ति ननु विपर्यासः । तद्वेद्यं सहकारि तु तस्य, न तद् वेद्य सहकारि ॥११॥ ज्ञानावरणादीनामशेषविगमात् क्षुधि प्रजातायाम् । "अपि न ज्ञानादीनां हानिः स्यादितरवत् तत्र ॥१२॥ नष्टविपाकः (का?) क्षुदिति प्रतिपत्तौ भवति चागमविरोधः । शीतोष्णक्षुदुदन्यादयो हि ननु वेदनीय इति ॥१३॥ १. तद्वा प्रवद्ध० SI 'तया प्रवद्ध' इति 'तदबा[धया प्रवृद्ध' इति वा पाठोऽपि कल्पयितं शक्यते ।। २. S प्रतौ इतः परं पञ्च पत्राणि न प्राप्तानि । अतः N. P. प्रती अवलम्ब्य [ ] एतच्चिह्नान्तर्गतः मूलकारिकात्मक एव भागः पूरितोऽस्माभिः।। ३. अनुत्तर. N.P. || ४. ०णा स्यान्न तस्य NI ५. क्षुद् बाधते N। 'क्षुद्बाधितो' इत्यपि पाठोऽत्र स्यात् । तुलना -- "क्षुत्पीडितोऽहं न किञ्चिज्जानामि, न किञ्चित् पश्यामि, उत्थातुमपि न शक्नोमि' इति प्रतीतेः" -- न्यायकुमु० पृ. ८६१ ॥ ६. विगमा PM ७. अपि तद् ज्ञानादिनां N. P. | "भगवति तु तदावरणादेरशेषस्यापगमात् सत्यामपिाधि न ज्ञानादि क्षयः। न ह्यग्न्यभावे सत्यपीन्धने धूमो भवति । तत्कर्मचतुष्टयप्रभवत्वे च क्षुधः “एकादश जिने क्षुत्पिपासादयः परीषहा वेदनीयप्रभवाः" [ ] इत्यागमविरोधः।" - न्यायकुमु० पृ० ८५४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146