Book Title: Stree Nirvan Kevalibhukti Prakarane Tika Author(s): Shaktayanacharya, Jambuvijay Publisher: Atmanand Jain SabhaPage 77
________________ शाकटायनाचार्यप्रणीतं स्वोपनवृत्तिलमलकृतं केवलिभुक्तिप्रकरणम् द्वावप्रमत्तयोगिषु सप्तसु भङ्गो हि बेदनीयस्य। [44a] सातासातोदयजौ बन्धोदयसत्त्वं योगस्य ॥ अथ ज्ञानमानन्दरूपम् श्लोकमेकं विजानानः शास्त्रं ग्रन्थार्थतोऽपि वा। हलादते मानुषस्तोत्रं किं पुनः सर्वभाववित् ॥ [ मोहश्च दुःखरूपः । तथा च क्रोधादिना जनस्तीवं दग्ध इव दु:खमनुभवति, तद्विगमे च सुखायते, अतोऽस्य तत् सुखमिति ।। ज्ञानादिवन्न तज्जं विरोधि न ज्ञानाद्येव सुखम्, ततोऽर्थपरिच्छेदलक्षणादाह्लादरूपस्य पृथगनुभवात् सुखदुःखहेतोश्च वेदनीयस्य कर्मणः पृथगनुशासनात् तन्मूलमभ्युपगम्यते यदि तत् सुखं क्षुधं विरुणद्धि ज्ञानक्षमादिवृद्धौ तज्जन्मनः सुखस्यापि वृक्ष विवृद्धौ छाया या इव विवृद्धरस्मदादिषु क्षुधो हानिः ज्ञानादिविवृद्धिमनु भवेत् । न चैवम् । तस्मान्न ज्ञानादिवत् तज्जन्म सुखं क्षुधं विरुन्ध्यात् । न परं ततो दृष्टम् ॥५॥ [44b]अथान्यदेव किञ्चित् तत्र सुखं क्षुद्विरोधि भोजनजन्म वाभ्युपगम्यते, न तत् प्रमाणतो दृष्टं येनाभ्युपगम्येत । प्रमाणमूलो ह्यभ्युपगमः । आहारविषयकाङ्क्षारूपा क्षुद् भवति भगवति विमोहे । कथमन्यरूपताऽस्या न लक्ष्यते येन 'जायेत ॥६॥ स्वभावविरुद्धोपलब्धेः कारणानुपलब्धेर्वा भगवति केवलिनि क्षुदभावः । क्षुच्चेयमाहारविषयकाङ्क्षास्वभावा, नास्याः स्वभावान्तरमुपलक्षयामो येन वीतमोहेऽपि जायेत । विषयकाङ्क्षा तिर्यगायुषो भङ्गा नव विसदृशा भवन्ति, मनुष्यगत्यां मनुष्यायुषो भङ्गा नव विसदृशा भवन्ति, देवगतौ देवायुषो भङ्गाः पञ्च विसदृशाः स्युः । गोत्रे ७, वेद्ये ८, आयुषि ५, ९, ९, ५॥ . . . . . . . वेदनीये गोत्रवत् प्रथमा भङ्गाश्चत्वारो भवन्ति । गोत्रस्य पञ्चमं भङ्गं त्यक्त्वा चत्वार आद्या भङ्गा वेद्यस्य भवन्ति । सातासातैकतरमेव योग्यस्थाने बन्ध उदयो वा स्यात् । सत्त्वं सयोगान्तं द्वे द्वे अयोगे ते उदयागते । तेन वेदनीयस्य गुणस्थानं प्रति भङ्गाः मिथ्यादृष्टयादिप्रमत्तपर्यन्तेषु ते चत्वारो भङ्गाः - सातबन्ध-सातोदय-सातासातोभयसत्त्वमिति प्रथमो भङ्गः । सातबन्धासातोदयोभयसत्त्वमिति द्वितीयो भङ्गः। असातबन्धसातोदयोभयसत्त्वमिति तृतीयो भङ्गः। असातबन्धोदयोभयसत्त्वमिति चतुर्थों भङ्गः। इति चत्वारो भङ्गा :। मिथ्यात्व-सास्वादन-मिश्रा-ऽविरत-देशविरत-प्रमत्तगुणस्थानेषु षट्सु प्रत्येकं चत्वारो भङ्गा भवन्ति । खलु निश्चयेन अप्रमत्तादिसयोगान्तेषु सप्तसु द्वौ द्वौ भनौ प्रत्येकं भवतः । असातावेदनीयस्य बन्धस्य षष्ठे प्रमत्ते व्युच्छेदत्वादप्रमत्तादि सयोगान्तं केवलसातस्यैव बन्धः । ततः सातस्य बन्धः सातस्योदयः उभयसत्वमिति प्रथमभङ्गः। सातबन्धः असातोदयः सातासातसत्त्वमिति द्वितीयभङ्गः। एवं द्वौ द्वौ भनौ अप्रमत्तादिसयोगान्तं प्रत्येकं भवत: । अयोगस्य द्विचरमसमये बन्धरहितमादिमभङ्गद्वयं भवति,सातोदयः सातासातसत्त्वम् १ असातोदयः सातासातसत्त्वमिति २ द्वौ भनौ अयोगस्योपान्त्यसमये भवतः। अयोगस्य चरमसमये असातोदयः सत्त्वमप्यसातम् १ उदये सातं सत्तायां सातं २ मानाजीवापेक्षया शेयमिति। "-पृ० ३०३-३०८॥ १. जायते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146