Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 86
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् वक्तुम्, अनिन्द्रियगोचरस्याप्यन्तरायत्वे इन्द्रियगोचरवदुपयोगेन भवितव्यम्, अन्यथेन्द्रियविषयत्वमपि मा भूत् । यदि भुङ्क्ते केवली तस्य मतिज्ञानप्रसङ्गः विषयिविष [60a ] यसम्बन्धात् । न च केवलिनो मतिज्ञानमस्ति । इन्द्रियविषयप्राप्तौ यदभिनिबोधप्रसञ्जनं भुक्तौ । तच्छब्द-रूप- गन्ध-स्पर्शप्राप्त्याप्रतिक्षिप्तम् ।। ३३ ।। नेन्द्रियविषयप्राप्तिसम्बन्धमात्रेण मतिज्ञानं भवति । कथं तर्हि ? इन्द्रियविषयसम्बन्धेन मतिज्ञानावरणीयस्य कर्मणः क्षयोपशमे सति प्रादुर्भावात् । तथा च पठन्ति - तदिन्द्रियानिन्द्रियनिमित्तम् [ तत्त्वार्थं १/१४ ] इति । न च केवलिनः प्रक्षीणाशेषावरणस्य तथाविधं ज्ञानमिति । यथा श्रोत्रादीनामिन्द्रियाणां दिव्यतूर्यादिरवेण गणधरदेवादिरूपेण सुगन्धिकुसुमधूपादिवासादिगन्धेन मरुत्सिहासनादिस्पर्शेन योगेऽपि न मतिज्ञानं भवति तथा जिह्वारसप्राप्तावपि । भुक्तौ कथं मलचिन्तेति चेत् छद्मस्थे तीर्थकरे विष्वणनानन्तरं च के [60b]वलिनि । चिन्ता मलप्रवृत्तौ या सैवात्रापि भुक्तवति ॥ ३४ ॥ नित्यं निःस्वेदत्वं (त्व) निर्मलते तीर्थकरपरमदेवस्य [ इति छद्मस्थावस्थायामपि मलाभावं पठन्ति । ५१ नत्थि कालो कालो वा सायमाणस्स भिक्खुणो [ ] इति भोजनानन्तरं च केवलज्ञानोदयमभ्युपगच्छति केवलिनश्च भुक्तौ मलप्रसङ्गं चोदयतीति अहो महामोहः ! एवं न केवलिनि भुक्तेर्बाधकमस्ति प्रमाणम् । [विग्रहगतिमापन्नाद्यागमवचनं च सर्वमेतस्मिन् । भुक्ति ब्रवीति तस्माद् द्रष्टव्या केवलिनि भुक्तिः ।। ३५ ।। ] ४ विग्गहगय सिद्धा य अणाहारा सेसा आहारया जीवा । सुहुर्भोगिदियपहुइ जाव सजोगिकेवलित्ति सव्वे आहारया जीवा [ ] इति चागमः केवलिनि विस्पष्टं भुक्तिमाचष्टे । तस्मात् केवलिभुक्तिरभ्युपगन्तव्या । नात्र व्यामोहः कर्तव्यः । १. भवतिभव्यं । २. विष्वणनं भोजनमित्यर्थः ॥ ३. 'निःस्वेदत्वं निर्मलता' इत्यपि पाठोऽत्र सम्भवेत् ।। ४. N. P. प्रती अवलम्ब्य पूरितेयं कारिकास्माभिः ॥ ५. “ विग्गहगइमावना केवलिणो समुहना अजोगी य। सिद्धा य अणाहारा सेसा आहारया जीवा ।। " इति जीवसमासे [गा० ८२] दिगम्बरीये पञ्चसंग्रहे [१ । १७७] च ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146