Book Title: Stree Nirvan Kevalibhukti Prakarane Tika Author(s): Shaktayanacharya, Jambuvijay Publisher: Atmanand Jain SabhaPage 84
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् अथैवं मन्येत -- भुक्तिर्दोषो यदुपोष्यते न दोषश्च भवति निर्दोषे । निर्दोषः केवली, भुक्तिश्च दोषः, यदुपवासादि प्रत्याख्यानं क्रियते । दोषश्च न निर्दोषे युक्तः कल्पयितुमिति । नैतद् युक्तम्, इति निगदतो निषद्याद्यर्हति न स्थानयोगादेः ॥२९॥ एवं ब्रुवाणस्य निषद्या गमनमिति चाहति न स्यात्, स्थानयोगादिना निषद्यादेः प्रत्याख्यानात् । वचनमपि न स्यात्, मौनव्रतिकोपलम्भात् । शरीरस्याप्यन्ते परित्यागात् तदभावोऽपि प्रसज्येत । यथा वेदनी[57b]योदयजन्मानो रोगादयः परीषहाः क्वचिन्न भवन्ति तथा क्षुदपि क्वचित् सत्यपि वेदनीयोदये न स्यादिति चेत्, न, रोगादिवत् क्षुधो न व्यभिचारो वेदनीयजन्मायाः । प्राणिनि वेदनीयजन्मनो रोगादिवत् क्षुधो वेदनीयोदये सति नाभावः शक्यः कल्पयितुम्, रोगादिवत् क्षुधः क्वचिदपि प्राणिनि व्यभिचाराभावात् । देवेषु भोगभूमिजेषु तीर्थकरादिषु वा जन्मतो रोगाभावः श्रूयते, अद्यापीह केचिदरोगाः दृश्यन्ते, न क्षुधः क्वचित् प्राणिनि आसंसारं व्यभिचारोऽस्ति । अन्यत्र व्यभिचाराभावेऽपि अत्र व्यभिचारः स्यादिति चेत्, न, प्रमाणाभावात् । भावे किं [58a] प्रमाणम् ? न अन्यत्र व्यभिचाराभाव एव प्रमाणम्, अन्यत्र व्यभिचाराभावेऽपि व्यभिचारदर्शनात् 'पक्वान्येतानि फलानि, एतच्छाखाप्रभवत्वात्, उपयुक्तफलवत् । पक्वा एते तण्डुलाः, एतत्स्थाल्यन्तर्गतत्वात्, उद्धृततण्डुलवत् । लोहलेख्यं व्रजम्, पार्थिवत्वात्, घटवत् । स श्यामः, तत्पुत्रत्वात्, इतरतत्पुत्रवत् ।' इत्यादौ तथा मिथ्यादृष्ट्यादिषु गुणस्थानेषु अव्यभिचाराणां मिथ्यादर्शनादीनामुत्तरगुणस्थानेष्वभावः । तदन्यत्राव्यभिचारेऽपि तत्र तद्भावमिच्छता तत्र तद्भावे प्रमाणं वक्तव्यम् । नावश्यं कारणानि कार्यवन्ति भवन्तीति न वेदनीयोदयः प्रमाणं भवति । उच्यते - अविकलं [58b] कारणं कार्यं गमयति, तस्य तद्भावनिष्ठत्वात् । दर्शितं छद्मस्थवत् तत्र क्षुधः कारणावैकल्यम् । किञ्च, एकादश जिन इति जिनसामान्यविषयं च ॥३०॥ १. .ष्येत SH Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146