Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 78
________________ शाकटायनाचार्यप्रणीतं स्वोपनवृत्तिसमलङ्कृतं केबलिभुक्तिप्रकरणम् भवति लोभात्मिका तृष्णा मोहः, स निर्मोहस्वभावेन विरुध्यते । निर्मोहश्च भगवान् केवली, 'मोहक्षयादावरणान्तरायक्षयाच्च केवलम् [ तत्वार्थ० १०/१] इति वचनात् । आप्तता वाऽन्यथा हीयेत । [45a]अतो न क्षुद्वान् केवली, क्षुद्विरोधिविमोहतारूपत्वात् । यत्र यद्विरोधि सन्निधीयते न तत्र तत् सन्निहितं भवति यथाग्निसन्निधाने शीतमिति प्रतीयते । तथा विषयकाङ्क्षात्मिका क्षुद् मोहरूपा मोहनीयाद् भवितुमर्हति । तच्च मोहनीयं कर्म कारणं तस्मिन् भगवति साकल्येन विनष्टम् । कारणाभावाच्च कार्याभाव यथाग्न्यभावाद्धमाभाव इति क्षुदभावः । तक्षाद्यभावेऽपि प्रासादादयस्तिष्ठन्ति तक्षादीनां प्रासादाद्यात्मलाभे आत्मलाभकारणानां तस्थितावकारणत्वात् । न चैवं कर्मफलानां कर्माभावेऽप्यवस्थानं सिद्धेष्वपि प्रसङ्गादिति चेत्, न क्षुद्विमोहपाको यत् प्रतिसङ्ख्यानभावननिवर्त्या । न भवति, विमोहपाकः सर्वोऽपि हि तेन विनिवयंः ॥७॥ [45b]यो यो मोहः स सर्वः प्रतिपक्षभावनया निवर्त्यते यथा क्षमादिभावनया क्रोधादिः । मोहनिग्रहाय हि प्रतिपक्षभावनोपदेशि सर्वमध्यात्मशास्त्रम् । यदि च क्षुदपि मोहात्मिका प्रतिपक्षभावनया कयाचित् क्रोधादिवदुपरमन्ती अनुभूयेत । तथा च तयैव क्षुद् विनिवर्तते निराबाधा च कायस्थितिरमोहाऽनवद्येति शास्त्रं क्षमादिवत् क्षुत्प्रतीकारे प्रतिपक्षभावनामेवोपदिशेत्, न क्लेशभूयिष्ठां ध्यानाध्ययनविघातकारिणीमथिकां पिण्डैषणाम् । न चैवम् । तस्मान्न क्षुद्विमोहरूपा । न च धृतिभावनया क्षुन्निवृत्तिरस्ति । धृत्या हि कियन्तं कालमाहारो [46a] नोपादीयेत, न क्षुदभावः । तथा च धृत्याऽनुपात्ताहाराः क्षुदग्निप्लुष्टकायाः प्राणानुज्झन्ति । न च क्षुदभावेऽनश्नतां शरीरपातो युक्तः । चित्तव्याक्षेपाच्च कदाचितदनाभोगो नाभावात् । तथा च ततः प्रत्युत्थितः सद्यः क्षुधं वेदयते । शीतोष्णबाधतुल्या क्षुत् तत् यत एवं तस्माद्यथा शीतोष्णबाधा न मोहरूपा न च मोहनीयपाकः, वेदनीयादेव तु प्राप्तादुपजायते । न हि तत्र रतेररतेर्वा निमित्तभावः, सामर्थ्यानुपलक्षणात् । क्षुदपि तादृशी बाधारूपा, ३न मोहरूपा, न मोहनीयकार्या, न हि तत्र मोहनीयस्य कश्चिद् व्यापारः शक्यः कल्पयितुं येन मोहनिवृत्तेनिवर्तेत । ननु च क्षुत्पिपासादिता वयमाहारं तदाध्यानपराः काङ्क्षामः । [46b]यदि न मोहरूपा क्षुत् तत् कथम् ? इति चेत्, उच्यते -- १. " मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम्" --तत्त्वार्थ० १०/१॥ २. अत्र विमोहशब्दस्य 'विशिष्टो मोहः' इत्यर्थः प्रतीयते ॥ ३. न मोहरूपा s. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146