Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 76
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् लभ्यते । न हि बालादौ ज्ञानाद्यपचये क्षुदुपचयस्ततः प्रभृति च ज्ञानाद्युपचये तारतम्येन . क्षुदपचयो लक्ष्यते । तन्न ज्ञानादिमात्रस्य क्षुधा विरोधः । अथ मन्येत - ये केवलिगता ज्ञानादयः प्रकर्षपर्यन्तप्राप्तास्तेषामेव [42b]क्षुधि विरोध इति, न च तज्ज्ञानादीनां विरोधगतिः ॥३॥ न च केवलज्ञानादयः क्षुधं विरुन्धन्तीति शक्यं प्रतिपत्तुमतीन्द्रियत्वात् । न ह्यतीन्द्रियस्यार्थस्य केनचित् सह विरोधः प्रतीयते । अविकलकारणभावे तदन्यभावे भवेदभावेन । इदमस्य विरोधीति ज्ञानं न तदस्ति केवलिनि ॥४॥ कारणवैकल्यमपि वस्त्वभावे निबन्धनम् । अतो विकलकारणस्य वस्त्वन्तरसन्निधावभावेऽपि न विरोधः शक्यते प्रतिपत्तुम्, 'किमेतत्सन्निधावस्याभावः उत कारणवैकल्यात्' इति सन्देहात् । अतोऽविकलकारणस्य भ[43a]वतोऽन्यभावेऽभावाद् विरोधगतिः, तत्र 'अत एवास्याभावः' इति निर्णयात् । न चैवं स्वभावविप्रकृष्टेषु केवलिगुणेषु 'एतत्सन्निधौ हुन्न भवति' इति विरोधप्रतिपत्तिरुपजायते । अतो न ज्ञानादिभ्यस्तत्र क्षुदभावः । क्षुद् दुःखमनन्तसुखं विरोधि तस्येति चेत्, ___ अथ मन्येत - सुखदुःखयोविरोधः । न हि यत्र सुखं तत्र दुःखमेकत्र यौगपद्येनास्ति । क्षुच्च दुःखस्वरूपा । न ह्यन्यथा तत्प्रतीकाराय यत्येत । निवृत्तये हि यत्नो दुःखस्य भवति, सुखस्य प्राप्तये । भगवति चानन्तसुखं सर्वप्रदेशव्यापि अव्याहतमास्ते, तत् सन्निधीयमानं[43b] स्वविरुद्धं दुःखं निवर्तयति यथाग्निः शीतम् । तन्निवृत्तौ च तद्वयाप्यायाः क्षुधो निवृत्तिः । व्यापकनिवृत्तौ हि व्याप्यमवश्यं निवर्तते यथा शीतस्पर्शनिवृत्तौ तुषारस्पर्शः, अन्यथा तयोर्व्याप्यव्यापकभावाभावादिति । कुतस्त्यं तत् । सर्वपातकनिवृत्त्यात्मकमात्मावस्थानं यद्यनन्तसुखं तन्न भुक्तिवादिनस्तत्र सिद्धं क्षुदभ्युपगमात् । तत् सकलकर्मविप्रमुक्तायां निर्वेदनायां सिद्धावस्थायामेव, नार्हदवस्थायाम्, तत्र वेदनीयोदयसम्भवात् । असातोदयश्च 'गोत्तम्हि सत्त भंगा अट्ठ य भंगा हवंति वेदणिए। [दि. पञ्चसं० ५/१५] इति पठ्यते । १. सुमतिकीतिविरचितायां दिगम्बरपंचसंग्रहान्तर्गतसप्ततिकाटीकायामियं व्याख्यया सहेत्थं विलोक्यते "गोवेसु सत्त भंगा अट्ठ य भंगा हवंति वेयणिए। पण नव नव पण संखा आउचउक्के वि कमसो दु॥५॥१५॥ अथ गोत्र-वेदनीया-ज्युषां त्रिकसंयोगभङ्गान भक्त्वा गणस्थानेष योजयति। नीचोच्चगोत्रद्वयस्य असदशभजाः सप्त भवन्ति। सातासातवेदनीयद्वयस्यासदृशभङ्गा अष्टौ भवन्ति । नरकगतौ नारकायुषः असदृशभङ्गाः पंच भवन्ति, तिर्यग्गयां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146