Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 74
________________ ॥अथ केवलिमुक्तिपरिच्छेदः ॥ [39a]एवं स्त्रीनिर्वाणं प्रतिपाद्येदानी केवलिभुक्ति प्रतिपिपादयिषुः पूर्ववद् बाधकप्रमाणाशङ्कापरिहारायोपक्रमते - अस्ति च केवलिभुक्तिः समग्र हेतुर्यथा पुरा नास्ति केवलिभुक्तिः 'विकलकारणत्वात् ' इत्य सिद्धो हेतुः । यत् पूर्वमकेवल्यवस्थायां भुक्तेः कारणं तत् केवल्यवस्थायामपि चिरं विहारिणो भगवतः केवलिनोऽविकलमास्त एव । द्विविधं भुक्तेः कारणम् – ३बाह्यमाभ्यन्तरं च । बाह्यं द्रव्यादि, तत् तावदास्ते, न तत्र विप्रतिपत्तिः । यस्त्वाभ्यन्तरः स पर्याप्ति-वेद्य-तैजस-दीर्घायुष्कोक्यो हेतुः ॥ १॥ भुक्तस्याहारस्य तेजसा मृदूकृतस्य खलरसभावाद्युत्तरोत्तरपरिणामकारणं यतः शरीरेन्द्रियादिनिष्पत्तिः सा पर्याप्ति म कारणम्, वेदनीयं सुख-दुःखवेदनासाधनं कर्म, तैजसमन्तस्ते[39b]जःशरीरोष्मा यतो भुक्तपाकः, 'दीर्घमायुश्चिरजीवनं कर्म, एतदुदयात् क्षुद्वेदनोपजायते । नान्यस्य ज्ञानावरणीयादेरिह सामर्थ्यमवलोक्यते । पर्याप्त्याद्युदयश्च भगवति चिरविहारिणि विद्यत एव केवलिनि । एतदुत्तरत्र निर्देक्ष्यते । एवमन्तरङ्गहेतुतः क्षुधि प्रजातायां भुक्तिप्रवृत्तिरिति विकलकारणत्वमसिद्धम् । किञ्च, भुक्त्यभाववादिना तत्र केवलिनि क्षुदभावो वक्तव्यः, क्षुधि हठाच्चिरविहारिणो भुक्त्यापत्तेः । तत्र नैवागमः प्रसिद्धः 'नास्ति केवलिनि क्षुत्' इति यथा सिद्धेषु । तत्र प्रमाणान्तरान्निषेधः प्रवर्तमानः साक्षात् स्वभावानुपलभ्भादन्यतो वा प्रवर्तेत ? तत्र स्वभावानु - १. दृश्यतां पृ० १ टि० १॥ २. भुक्तिकारणं S॥ ३. बाह्यमभ्यन्तरं A ॥ ४. यस्त्वम्य० A || ५. जीवितं ॥ ६. पर्याप्त्यादयश्च भगवति चिरविहारिणि विद्युत एव S. ॥ ७. इतः परम् A प्रतिनं लभ्यते॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146