Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 73
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् किञ्च, मनुजगतौ सन्ति गुणाश्चतुर्दशेत्याद्यपि प्रमाणं स्यात् । पंवत स्त्रीणां सिद्धौ नापर्याप्तादिवद् बाधा ॥५३ ॥ मणुयगईए चोद्दस गुणट्ठाणाणि होंति, पंचेंदिएसु [चोद्दस ] गुणट्ठाणाणि होति, चोद्द[37b]स तसेसु मुणट्ठाणाणि होति, भवसिद्धिका य सव्वट्ठाणेसु होंति [ ] इत्येवमाद्यपि प्रवचनं स्त्रीनिर्वाणे प्रमाणम्, स्त्रीणामपि पुंवद् मनुष्यगत्यादिधर्मयोगात् । ननु चेदं सामान्यविषयं कथं विशेषे स्त्रीविषये प्रमाणं स्यात्, तद्विशेषपरिहारेण विशेषान्तरे भावेऽपि तस्य सावकाशत्वादिति चेत्, तर्हि पुंविषयेऽपि मा भूत्, सोऽपि हि विशेष एव । अथ तस्मिन् विशेषे स्यात्, अत्र कः प्रद्वेषः ? न च विशेषे क्वचिदप्यभावे सामान्यविषयं प्रमाणमर्थवत् स्यात् । न च पुरुषेष्वर्थवत्ताकल्पनया स्त्रीषु तस्याप्रवृत्तिः शक्यते कल्पयितुम्, विपर्ययकल्पना[38a]या अपि प्रसङ्गात् । अतः पुरुषाणामिव स्त्रीणामप्ययमागमोऽविशेषेण चतुर्दश गुणस्थानानि प्रतिपादयन् स्त्रीनिर्वाणे प्रमाणमेव । न ३चैवमपर्याप्तमनुष्यादीनां देव-नारक-तिरश्चामपि निर्वाणप्रसङ्गः, तेषामेतद्वाक्याविषयत्वात् । उत्सर्गस्य हि नियमनिषेधेनापवादविधिविनिर्मुक्तो विषयो भवति, अन्यथा नियमाद्ययोगात् । अत्र च मिच्छविट्ठी अपज्जत्तगा [ 'सुरनारएसु च तारि होति तिरिएसु जाण पंचेव [पंचसं० ४।१०] इत्यादिरपवादोऽवस्थितः । न चैवमायिकासु किञ्चिदुत्सर्गविधेनिवर्तकं वचनं प्रमाणान्तरं वास्ति । न च निवर्तकाभावे प्रवृत्तस्योत्सर्गस्य विनिवृत्तिरस्ति । अत ६आस्तामाहत्य स्त्रीनिर्वाणविधायी [38b]आगमः स्त्रीनिर्वाणे प्रमाणम् । अयं सामान्यविषयोऽप्यागमः पुंनिर्वाणवत् तत्र प्रमाणमेव बाधकाभावात् । उक्तार्थसंग्रहः - न चे बाधकं विमुक्तेः स्त्रीणामनुशासनं प्रवचनं च ।। संभवति च मुख्येऽर्थे न गौण इत्यायिकासिद्धिः ॥ ५४ ॥ स्त्रीणां नास्त्येव निर्वाणमिति न शक्यं प्रतिपत्तुं बाधकप्रमाणाभावात्, तदायत्तो हि नास्तिताव्यवहारः । अस्तित्वे तु तस्यागमः प्रमाणमुक्तम् । न च तत्र स्त्रीशब्दस्यान्योऽर्थः शक्यते कल्पयितुं तत्र प्रमाणाभावात् । न हि तत्र मुख्यार्थासम्भवप्रतिपत्तिमन्तरेण गौणार्थकल्पनास्ति । गौणश्च स्त्रीशब्दस्य पुमर्थः । तस्मानिःश्रेयसकामेनाविपरीतं शास्त्रार्थ प्रतिपद्यमानेन अवश्य स्त्रीनिर्वाणं प्रतिपत्तव्यम् ।। ___ इति स्त्रीनिर्वाणपरिच्छेदः समाप्तः ।। १. नापर्याप्त्यादि० A॥ २. भवसिद्धिया सव्वठाणा भवंति A || ३. "मपर्याप्तकमनु० A || ४. नियमनिषेधादविधि A ॥ ५. दृश्यतां पृ० १४ टि० २॥ ६. अर्हतामाहत्य S | ७. स्त्रीशब्दः पुमर्थः ॥ ८. शुभं भवतु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146