Book Title: Stree Nirvan Kevalibhukti Prakarane Tika Author(s): Shaktayanacharya, Jambuvijay Publisher: Atmanand Jain SabhaPage 57
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । यदि वस्त्रोपा[11b]दानेऽपि मुक्तिः, किं पुरुषाणामाचेलक्यमुपदिश्यते ? आचेलक्कुद्देसिय सिज्जायर रायपिंड किइकम्मे । [मूलाचारे गा० ९०९] आचेलक्कं लोचो बोसटुसरीरया य पडिलिहणं।। एसो खु लिंगकप्पो चउव्विहो होइ उस्सग्गे ॥ [मूलाचारे गा० ९०८] नो कप्पइ निग्गंथाणं चेलं वा चिलिमिलि वा धारित्तए वा पडिग्गाहित्तए वा [ ] इति । यथैव स्त्रीणां सत्यपि वस्त्रे मुक्तिरेवं पुरुषाणामपि स्यात् । अथ तेषां पुरुषाणां सति वस्त्रे न मुक्तिः स्त्रीणामपि मा भूत्, को वा विशेषो येन स्त्रीणां वस्त्रमुपदिष्टं पुरुषाणां प्रतिषिद्धमिति चेत्, उच्यते - वस्त्रं विना न चरणं स्त्रीणामित्यर्हतौच्यत, विनापि । पुंसामि[12a]ति न्यवार्यत, भगवता स्त्रीणां वस्त्रमुपदिष्टं वस्त्रत्यागो निषिद्धः, पुरुषाणां च येषां विना वस्त्रेण शक्यं धर्मानुष्ठानं त्रिस्थानदोषरहितानां तेषां वस्त्रादानं प्रतिषिद्धं त्रिस्थानपतितानां चोपदिष्टम् । तन्नूनं तेषां धर्मसाधनं येषां भगवता तदुपदिष्टम् । न ह्यन्यथा निष्प्रयोजनं धर्मविरोधं वा भगवानुपादेयमुपदेष्टुमर्हति आप्तत्वविरोधात् । तेषां च निष्प्रयोजनं धर्मान्तरायो वा येषां प्रतिषिद्धम्, न हि धर्मसाधनं भगवान् निषेद्ध मर्हति । न चैकस्य धर्मसाधनं सर्वेषां भवति एकस्याऽभवद्वा सर्वेषां न भवतीति नियमः, अनशनादिषु तथा[5]दर्शनात् । [12b]कथं कारणभेदे मुक्तिलक्षणं कार्यमभिन्नं स्यात् ? अयमेव हि भेदो भेदहेतुश्च यदुत विरुद्धधर्माध्यासः कारणभेदश्च चेत्, तत्र स्थविरादिवन्मुक्तिः ॥२०॥ तत्रैवं सचेलताचेलक्यभेदेऽपि मिथ्यात्वा-संयम-प्रमाद-कषाय-योगप्रतिबन्धिनः सम्यग्दर्शनादिरूपस्य मार्गस्य तत्प्रवृत्तिसाध्यस्य तुल्यत्वाद् मुक्तिस्तुल्यैव भवति, यथा स्थविरकल्पिनां सापेक्षसंयतानां जिनकल्पिनां च निरपेक्षसंयतानां भक्तपरिज्ञेङ्गिनीप्रायोपगमनगतानां षष्ठाऽष्टम-दशम-द्वादश-रत्नावल्याद्युपवासादिनिरतानां तद्विकलानां चेति । यदि चा[13a]यं निर्बन्धो 'वस्त्रग्रहणे न मोक्ष एव' इति, अर्शीभगन्दरादिषु गृहीतचीरो यतिन मुच्येत । अर्शो-भगन्दरादिगलत्पूयेषु व्याधिषु व्रणबन्धाय यतेश्चीरग्रहणमुपदिश्यते, अन्यथा तत्रासंयमः स्यात् । ततश्च तत्र गृहीतचीरः पुरुषोऽपि संयतो न संसारबन्धनाद् मुच्येत । निर्वेदाच्चात्यन्त १. रादि[षु?]॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146