SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । यदि वस्त्रोपा[11b]दानेऽपि मुक्तिः, किं पुरुषाणामाचेलक्यमुपदिश्यते ? आचेलक्कुद्देसिय सिज्जायर रायपिंड किइकम्मे । [मूलाचारे गा० ९०९] आचेलक्कं लोचो बोसटुसरीरया य पडिलिहणं।। एसो खु लिंगकप्पो चउव्विहो होइ उस्सग्गे ॥ [मूलाचारे गा० ९०८] नो कप्पइ निग्गंथाणं चेलं वा चिलिमिलि वा धारित्तए वा पडिग्गाहित्तए वा [ ] इति । यथैव स्त्रीणां सत्यपि वस्त्रे मुक्तिरेवं पुरुषाणामपि स्यात् । अथ तेषां पुरुषाणां सति वस्त्रे न मुक्तिः स्त्रीणामपि मा भूत्, को वा विशेषो येन स्त्रीणां वस्त्रमुपदिष्टं पुरुषाणां प्रतिषिद्धमिति चेत्, उच्यते - वस्त्रं विना न चरणं स्त्रीणामित्यर्हतौच्यत, विनापि । पुंसामि[12a]ति न्यवार्यत, भगवता स्त्रीणां वस्त्रमुपदिष्टं वस्त्रत्यागो निषिद्धः, पुरुषाणां च येषां विना वस्त्रेण शक्यं धर्मानुष्ठानं त्रिस्थानदोषरहितानां तेषां वस्त्रादानं प्रतिषिद्धं त्रिस्थानपतितानां चोपदिष्टम् । तन्नूनं तेषां धर्मसाधनं येषां भगवता तदुपदिष्टम् । न ह्यन्यथा निष्प्रयोजनं धर्मविरोधं वा भगवानुपादेयमुपदेष्टुमर्हति आप्तत्वविरोधात् । तेषां च निष्प्रयोजनं धर्मान्तरायो वा येषां प्रतिषिद्धम्, न हि धर्मसाधनं भगवान् निषेद्ध मर्हति । न चैकस्य धर्मसाधनं सर्वेषां भवति एकस्याऽभवद्वा सर्वेषां न भवतीति नियमः, अनशनादिषु तथा[5]दर्शनात् । [12b]कथं कारणभेदे मुक्तिलक्षणं कार्यमभिन्नं स्यात् ? अयमेव हि भेदो भेदहेतुश्च यदुत विरुद्धधर्माध्यासः कारणभेदश्च चेत्, तत्र स्थविरादिवन्मुक्तिः ॥२०॥ तत्रैवं सचेलताचेलक्यभेदेऽपि मिथ्यात्वा-संयम-प्रमाद-कषाय-योगप्रतिबन्धिनः सम्यग्दर्शनादिरूपस्य मार्गस्य तत्प्रवृत्तिसाध्यस्य तुल्यत्वाद् मुक्तिस्तुल्यैव भवति, यथा स्थविरकल्पिनां सापेक्षसंयतानां जिनकल्पिनां च निरपेक्षसंयतानां भक्तपरिज्ञेङ्गिनीप्रायोपगमनगतानां षष्ठाऽष्टम-दशम-द्वादश-रत्नावल्याद्युपवासादिनिरतानां तद्विकलानां चेति । यदि चा[13a]यं निर्बन्धो 'वस्त्रग्रहणे न मोक्ष एव' इति, अर्शीभगन्दरादिषु गृहीतचीरो यतिन मुच्येत । अर्शो-भगन्दरादिगलत्पूयेषु व्याधिषु व्रणबन्धाय यतेश्चीरग्रहणमुपदिश्यते, अन्यथा तत्रासंयमः स्यात् । ततश्च तत्र गृहीतचीरः पुरुषोऽपि संयतो न संसारबन्धनाद् मुच्येत । निर्वेदाच्चात्यन्त १. रादि[षु?]॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001144
Book TitleStree Nirvan Kevalibhukti Prakarane Tika
Original Sutra AuthorShaktayanacharya
AuthorJambuvijay
PublisherAtmanand Jain Sabha
Publication Year1974
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy