________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । अजयं चरमाणस्स पाणभूयाणि हिंसओ। बज्झए पावए कम्मे से होति कडुगे फले ॥ जयं तु चरमाणस्स दयाविक्खिस्स भिक्खुणो।
नवे न बज्झए कम्मे पोराणे य विधूयए ॥ [ ] इति । तस्माद् यथा त्रैलोक्ये म्रियमाणेषूत्पद्यमानेषु च प्राणिषु पुरुषस्य न दोषसम्बन्धः तद्वदस्या अपि ममत्वरहिताया यत्नवत्याः ।
चेलसंसर्गेऽपि मोक्षे गृहिणो मोक्षः कस्मा[11]न्न भवतीति चेत्, 'गृहिणो ममत्वयोगात् संयमसाधनगृहीत्यभावाच्च । अयतं चरतश्चरणं न विद्यते तेन नो मोक्षः ॥१८॥
यथाऽऽाया वृत्तं न तथा गृहिणोऽस्ति । न हि गृही तत्र ममत्वरहितः, न च संयमसाधनार्थं वस्त्रं गृह्णाति, न च शास्त्रचोदितयत्नयोगी मिथ्यादर्शनादियोगादिति न तस्य मोक्षः । यद्यार्यिकावद् यत्नवान्, यतिरेव स्यात्, न गृही । तथा च पठन्ति -
हिरिमाणे एगेण वत्थेण परिव्वएज्जा [ ] इत्यादि । तथा "त्रिस्थानोक्ता दोषाः ३त्रयोपदेशाय ते सचेलत्वे ।
अपरिषहसहिष्णुत्वं ह्रीश्च जुगुप्सा च देहस्य ॥१९॥ इति । [म्रियतां वा जीवतु वा जीवोऽ यताचारस्य निश्चिता हिंसा। प्रयतस्य नास्ति बन्धो हिंसामात्रेण समितस्य ॥३॥१७॥ इति छाया]
अशुद्धोपयोगोऽन्तरङ्गच्छेदः, परप्राणव्यपरोपो बहिरङ्ग : । तत्र परप्राणव्यपरोपसद्भावे तदसद्भावे वा तदविनाभाविप्रयताचारेण प्रसिध्यदशुद्धोपयोगसद्भावस्य सुनिश्चितहिंसाभावप्रसिद्धः तथा तद्विनाभाविना प्रयताचारेण प्रसिध्यदशुद्धोपयोगासद्भावपरस्थ परप्राणव्यपरोपसद्भावेऽपि बन्धाप्रसिद्धया सुनिश्चितहिंसाऽभावप्रसिद्धेश्चान्तरङ्ग एव छेदो बलीयान्, न पुनर्बहिरङ्गः। एवमप्यन्तरङ्गच्छेदायतनमात्रत्वाद् बहिरङ्गच्छेदोऽभ्युपगम्यतेव।" इति प्रवचनसारस्य. अमृतचन्द्रसूरिकतायां तत्त्वदीपिकाभिधायां वृत्तौ पृ० २९१-२९२ ।।
१. इयं कारिका N. P. प्रत्योर्नास्ति ।।
२. इयं कारिका N. P. प्रत्योर्नास्ति । अतो ग्रन्थकारेण मूलरूपेणेयं कारिका विवक्षिता आहोस्वित् पूर्व "तथा च पठन्ति" इत्युल्लिख्य ग्रन्थान्तरादियमुद्धता इति सन्दिग्धमत्र । किञ्च, अस्याः कापि व्याख्या ग्रन्थकृता न विहिता, अतोऽपि अस्या मूलत्वे सन्देहः।
३. 'ज्ञानदर्शनचारित्ररूपत्रयोपदेशाय, ते दोषाः' इति S. प्रतौ टिप्पण्यां लिखितमस्ति । 'त्रयोऽपदेशा यतेः सचेलत्वे' इति पाठोऽत्र साधुरिति त्वस्माकं मतिः । अपदेशाः प्रत्यया इत्यर्थः । एते च त्रयः प्रत्ययाः स्थानाङ्गे इत्थं निर्दिष्टा:
"तिहिं ठाणेहिं वत्थं धरेज्जा, तं० हिरिपत्तितं दुगुंछापत्तियं परीसहवत्तियं [सू. ३।३।१७१] । व्याख्या -- वस्त्रग्रहणकारणान्याह --तिहीत्यादि । ह्री लज्जा संयमो वा प्रत्ययो निमित्तं यस्य धारणस्य तत् तथा, जुगुप्सा प्रवचनखिसा विकृताङ्गदर्शनेन मा भूदित्येवं प्रत्ययो यत्र तत् तथा, एवं परीषहाः शीतोष्णदंशमशकादयः प्रत्ययो यत्र तत् तथा, आह च -- “वेउवि वाउडे वाइए य हीरिखद्धपजणणे चेव। एसिं अणुग्गहट्ठा लिंगुदयट्ठा य पट्टो उ” । [ओघनि० ७२३] तथा "तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा। दि8 कप्पग्गहणं गिलाणमरणट्ठया चेव ॥" [ओघनि० ७०७] इति ।"-- इति सटी के स्थानाङ्गसूत्रे तृतीय स्थाने तृतीय उद्देशे पृ० १३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org