________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । अपरिग्रह एव भवेद् वस्त्राभरणाद्यलकृतोऽपि पुमान् । ममकारविरहितः, सति ममकारे सङ्गवान् नग्नः ॥१३॥ आचार्याद्यासक्तं स्वयमादित नो मुमुक्षुका लोभात् । उपसर्गाद्यासक्तमिवाम्बरमपरिग्रहस्तस्याः ॥१४॥ काये ममकारेऽपि च सपरिग्रह एव नैव मुक्तः स्यात् । तत्र यथा संलग्ने नो ममकारस्तथा वस्त्रे ॥१५॥ ग्राम गेहं च विशन् कर्म च नोकर्म चाददानोऽपि । अपरिग्रहो[s]ममत्वोऽपरिग्रहो नान्यथा कश्चित् ॥१६॥
इति सङ्गहार्याः । एवमपि वस्त्रवत्या वस्त्रे जन्तुत्पत्तेः शयनादिषु हिंसाऽवश्यम्भाविनी । तत्र प्रथमव्रतमेव तावदहिंसालक्षणं नास्ति, कथं मुक्तिरि[10a]ति चेत्,
संसक्तौ सत्यामपि चोदितयत्नेन परिहरन्त्यार्या । हिंसावती पुमानिव न जन्तुमालाकुले लोके ॥ १७ ॥
नायं नियमोऽवश्यं चेलग्रहणमात्रेण संसक्तिर्भवतीति । अन्तर्मुहुर्तसिद्धा अनन्ता इति श्रूयन्ते । न च संसक्त्यां सत्यामपि तदैव तत्र जन्तुमरणम् । मरणेऽपि यथा शरीरादौ न प्राणव्यपरोपणं भवति तथा चेलेऽपि स्यात् । न च सत्यपि व्यपरोपणेऽहदुक्तेन यत्नेन परिहरन्त्याः प्रमादाभावे हिंसा भवति । प्रमादो हि हिंसा नाम । तथा च पठन्ति – प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा [तत्वार्थ. ७८] इति । अन्यथा पिण्डोपधिशय्यासु स्थान-शयन-गमना-ऽऽकुञ्चनप्रसारणा-ऽऽमर्शनादिषु च शरीरं क्षेत्रं लोकं च परिभुजानो
'जले जन्तुः स्थले जन्तुराकाशे जन्तुरेव च।
जन्तुमालाकुले लोके कथं भिक्षुरहिंसकः॥ [10b]हिंसकत्वेऽपि अर्हदुक्तयत्नयोगे न बन्धः । तद्विरहे एव यत्नः। तथा च पठन्ति -
'जियउ व मरउ य जीवो अजयाचारस्स निच्छओ बंधो। पययस्स नत्थि बंधो हिंसामित्तेण दोसेण ॥
१. तत्त्वार्थराजवातिके [पृ० ५४१] उद्धृतोऽयं श्लोकः ।। २. 'बन्धः' इति पाठः साधुर्भवेत् ।।
३. "मरद व जियदु व जीवो अयदाचारस्स णिच्छिदा हिंसा। पयदस्स णत्थि बंधो हिंसामित्तेण समिदस्स ।।३।१७॥" इति कुन्दकुन्दाचार्यविरचिते प्रवचनसारे दृश्यते।
" अथान्तरङ्ग-बहिरङ्गत्वेन छेदस्य द्वैविध्यमुपदिशति--
मरदु व जियदु व जीवो अयदाचारस्स णिच्छिदा हिंसा । पयदस्स पत्थि बंधो हिंसामित्तेण समिदस्स ॥३।१७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org