________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । त्वात् सत्यपि दोषे तद् वस्त्रग्रहणमात्रं दोषः, अन्यत् पुनः सर्वमेव शीलमनुपालितं भवतीति तत्त्यागोपादानयोर्गुणदोषाल्पत्वबहु[8b]त्वनिरूपणेन भगवद्भिरर्हद्भिर्वस्त्रग्रहणं स्त्रीणामुपदिष्टं त्यागो निषिद्धः । ततश्च नाप्तस्य दोषः । न च निर्वाणम्, परिग्रहस्य सदोषत्वात् ।
इति भुक्त्यादौ ॥११॥ एतद् भुक्त्यादावपि समानम्, एवं पिण्डोपधिशय्यास्वपि वक्तुं शक्यम् । पिण्डोपधिशय्याश्च गृह्यमाणत्वाद् वस्त्रवत् परिग्रहः ‘अल्पो दोषो महान् गुणः' इत्युपदिष्टाः स्युः । ततश्च धर्मसाधनानामपि सूत्रविहितानां परिग्रहत्वमिति पिण्डाद्युपादायिनां पुरुषाणामपि मोक्षाभावः स्यात् । तन्न सूत्रविहितस्य यथासूत्रमुपादीयमानस्य धर्मसाधनस्य परिग्रहत्वं शक्यमभ्युपगन्तुम् ।
अस्मिन्नर्थे भगवदाचार्यशिवस्वामिनः सिद्धिविनिश्चये युक्त्यभ्यधायि आर्याद्वयमाह - यत् संयमोपकाराय वर्तते प्रोक्तमेतदुपकरणम् । धर्मस्य हि त[9a]त् साधनमतोऽन्यदधिकरणमाहार्हन् । 'अस्तैन्य-बाहिरव्युत्सर्ग-विवेकैषणादिसमितीनाम् । उपदेशनमुपदेशो ह्युपधेरपरिग्रहत्वस्य ॥ किञ्च, निर्ग्रन्था(न्थी)व्यपदेशः शास्त्रे सर्वत्र नैव युज्यत । उपधेर्ग्रन्थत्वेऽस्याः , आगमे कल्पादौ सर्वत्र
आमे तालपलंबे भिन्नेऽभिन्ने वा नो कप्पति निग्गंथीणं परिग्गहित्तए [बृहत्कल्पे उ.१ सू.१] इति स्त्रिया निर्ग्रन्था (न्थी)व्यपदेशः श्रूयते, स यद्युपधिः परिग्रहः स्यात् परिग्रहस्य ग्रन्थत्वाद् गृहस्थस्येव नोपपद्येत
पुमानपि तथा न निर्ग्रन्थः ॥ १२ ॥ उपधेः संयमसाधनस्य परिग्रहत्वे पुरुषस्यापि निर्ग्रन्थव्यपदेशानुपपत्तिः तस्याप्योघाण्वौपग्रहिकोपधित्रयसद्भा[9b]वात् ।
१. अस्त्येयवा० S। (अस्तेय०?)।
२. "नो कप्पइ निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे अभिन्ने पडिगाहित्तए। कप्पइ निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे भिन्ने पडिगाहित्तए।" इति बृहत्कल्पे प्रथमोद्देशे प्रथम-द्वितीयसूत्रे। अत्र यद्यपि द्वितीयसूत्रे भिन्नं तालप्रलम्बमनुज्ञातम् तथापि भाष्ये वृत्तौ च 'भिन्नमपि न कल्पते' इत्यभिहितं विस्तरेण। तथाहि --
"जइ वि निबंधो सुत्ते तहवि जईणं न कप्पइ आमं ।
जइ गिण्हइ लग्गति सो पुरिमपदनिवारिए दोसे ॥१००१।। यद्यपि सूत्रे निबन्धः 'कल्पते भिन्नम्' इतिलक्षणः तथापि यतींनां न कल्पते आमं भिन्नमपि, यदि गृहणाति ततः स पूर्वपदे पूर्वसूत्रे निवारिता ये दोषास्तान् लगति प्राप्नोति ।"--बृहत्कल्पभाष्यटीका पु० ३१५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org