________________
१८
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् ।
त्यज्येत तत् यदि वस्त्रादेनिर्वाणाभावः, तत्त्यागान्निर्वाणं प्राप्नोति । शक्यते च तत् त्यक्तुम् । न हि तत् प्राणाः । प्राणा अपि त्यज्यन्ते, किं पुनरन्यत् । न हि तदभावे मुक्त्युपगतौ मुक्त्यर्थमुत्थितः कश्चिज्जनो मुक्ति विनाश्य बालिशश्चीरं गृहणाति ।
अथ न कल्पते हातुम् । अथोच्यत --
नो कप्पति निग्गंथीए अचेलाए होत्तए' [बृहत्कल्पे उ. ५ सू० १६] [7b]इत्यागमे आप्तैः स्त्रीणां वस्त्रत्यागो निषिध्यते । तस्माद् यद्यपि वस्त्रं त्यक्तुं शक्यते तथापि न वस्त्रत्यागः स्त्रीणामस्तीति निर्वाणाभावः । अथाप्तवचनमुल्लङ्घय वस्त्रं त्यज्येत, न सूत्रोल्लङ्घने चरणम् । आप्तादेशकारिता हि चरणमिति नितरां निर्वाणाभाव इति । एवं तर्हि
मुक्त्यङ्ग प्रतिलेखनवत्, ।
यदि भगवद्भिरर्हद्भिर्मोक्षमार्गप्रणायैः स्त्रीणां वस्त्रमुपदिष्टं वस्त्रत्यागो निषिद्धः तद् । वस्त्रं तासां मुक्त्यङ्गं प्रतिपत्तव्यम्, प्रतिलेखनादिवत् ।
अन्यथा देशको दुष्येत् ॥१०॥ यदि न तद् मुक्त्यङ्गं परिग्रहो मुक्तेः प्रतिबन्धकः, तत्त्यागो मिथ्यादर्शनादित्यागवद् युक्तः । तं वारयन् ग्राहयन् वस्त्रं मोक्षप्रतिबन्धि हिंसादेरुपदेष्टेव अर्हद्-गणधर-स्थविरादिर्यस्यायमुपदेशः स दोषदूषितः स्यात् । [8a] ततश्च न कस्यचिद् मुक्तिः स्यात् ।
अथैवं मन्येत -- त्यागे सर्वत्यागो ग्रहणेऽल्पो दोष इत्युपादेशि । वस्त्रं गुरुणाऽऽर्याणां परिग्रहोऽपि,
यदि वस्त्रं स्त्रीभिस्त्यज्येत सर्वस्यैव शीलराशेस्त्यागस्ताभिः कृतो भवति, 'अभिभूयन्ते हि प्रायेण विवृताङ्गोपाङ्गसन्दर्शनसञ्जातचित्तभेदैः "पुरुषैरङ्गना अपाकृतप्रावरणा इव घोटिका घोटः । गवारवादावपि सर्वत्र प्रायेण स्त्रीप्रकृतिरभिभाव्या, पुरुषप्रकृतिरभिभाविका । कुलस्त्रियश्च प्रकृत्या लज्जाभूयिष्ठा वस्त्रत्यागे दीक्षामेव त्यजेयुः । वस्त्रे तु वस्त्रस्य परिग्रहरूप
१. "नो कप्पइ निग्गंथीए अचेलियाए हुतए" इति बृहत्कल्पे ॥
२. “वा ज्वलादि-दु-नी-भू-ग्रहा-ऽऽस्रोर्णः" [सि. ५-१-६२] इति सूत्रेण बहुलाधिकारात् सोपसर्गादपि नीधातोः णप्रत्यये 'प्रणायैः' इति पाठोऽपि साधुः स्यात् । अत्रारुचौ तु सुधीभि : 'प्रणयः' इति 'प्रणायकैः' इति वा पाठः कल्पनीयः ।।
३. अभिभूयते ॥
४. पुरुषैरनंगाः। ॥ ५. “अभिभूयन्ते प्रायेण विवृतांगोपांगसन्दर्शनजनितचित्तभेदैः पुरुषैरंगना अकृतप्रावरणा भोटिकेव घोटकैः" --- न्यायकुमु० पृ० ८७३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org