________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । अतः स्त्रीणां निर्वाणाभावोऽप्युच्येत 'स्त्रियो न कदाचिन्निर्वान्ति' इति । न चैवमुच्यते । अतः प्रतिपद्यामहे 'अस्ति स्त्रीनिर्वाणम्' इति ।
अथ मन्येत – यद्यासां संयमः स्यादस्ति निर्वाणप्राप्तिरिति निषिध्येत, तदभावादेव निर्वाणाभाव इति न निर्वाणनिषेध इति । नैतदस्ति, तथा सति तपोविभवजन्मनां वादादिलब्धीनामपि[6b] निषेधो न क्रियेत । तथाऽन्येषामप्राप्तिमतां क्रियते च । अतो विज्ञायते ‘अस्ति संयमः' इति ।
किञ्च, स्त्रीति च धर्मविरोधे प्रव्रज्यादोविंशतौ स्त्रीति । बालादिवद् वदेयुर्न गभिणी बालवत्सेति ॥९॥
बाले बुड्ढे नपुंसे य जड्डे कीबे य बाहिए। तेणे राजावकारी य उम्मत्ते य अदंसणे॥ दासे बुट्ठ य मूढे य 'अणत्ते 'मुंगिय ति य। 'ओबद्धए य भयए सिक्खनिप्फेडिए ति य॥
गम्भिणी बालवत्सेति पव्वावेउं न कप्पइ ॥ [निशीथमाष्ये गा० ३५०६-८, पञ्चकल्पभाष्ये गा० १९८-२००] इति विंशतिरप्रव्राज्याः पठ्यन्ते । तत्र यदि स्त्रीत्येव धर्मेण विरुध्यते यथा बालादिः बालवृद्धादिवत् तत्र 'स्त्री' इत्येव पठ्येत 'स्त्री न प्रव्राजनीया' इति, न विशेषो ‘गर्भिणी बालवत्सा' इति । विशेषनिषेधो हि विशेषान्तरपरिग्रहे युज्यते । यदि न कस्यचिद् वि[7a]शेषस्य परिग्रहः सामान्येनैव निषिध्येत । अतो न स्त्रीत्येव धर्मविरोधः । एवन्तावत् स्त्रीत्वमनिर्वाणकारणं नेत्युक्तम् ।
यदि वस्त्रादविमुक्तिः
अथैवमुच्येत - वस्त्रपरिग्रहः, स स्त्रीणामस्ति, तस्मान्न ता विमुच्यन्ते । येषां परिग्रहयोगो न ते विमुच्यन्ते यथान्ये गृहस्थाः । अन्यथा पुंसामपि वस्त्रग्रहणं स्यात्, अनर्थकस्त्याग इति । नैतदस्ति,
मण-परमोधि-पुलाए आहारग-खवग-उवसमे कप्पे। संजमतिय-केवल-सिज्झणा य जंबम्मि वोच्छिण्णा ।।३०७६।।
मणग्रहणाद् वाक्यैकदेशानुकरणाद् मनःपर्यायज्ञानम्, परमावधिरुत्कृष्टमवधिज्ञानम्, पुलाकलब्धिः, आहारकशारीरकलब्धिः, क्षयोपशमश्रेणिद्वयम्, कल्पग्रहणाज्जिनकल्पः, संयमत्रिक परिहारविशुद्धि-सूक्ष्मसम्पराय-अथाख्यातानि, केवलज्ञानम्, सिद्धगमनं च। एतेऽर्था जम्बुनाम्नि सुधर्मगणधरशिष्ये व्यवच्छिन्नाः। तस्मिन् सति अनुवृत्ताः, तस्मिन् परिनिर्वाणे व्यवच्छिन्ना इति।" इति स्वोपज्ञटीकासहिते विशेषावश्यकभाष्ये उद्धृतेयं प्राचीना गाथा पृ० ५९४ ॥
१. ऋणातः S टिप्पण्याम् ॥ २. क्षत्तांगुल्यादिः S टिप्पण्याम् ।। ३. उबद्धए य भडए S॥ ४. एतत्तावत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org