SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । न ह्यधोगतौ स्त्री-पुंसयोरतुल्यं सामर्थ्यमिति शुभगतावप्यतुल्यम्, अशुभपरिणामस्य शुभपरिणामं प्रत्यहेतुत्वात् । तथाहि-तिरश्चां भुजग-खग-चतुष्पात्-सर्प-जलचराणां विषमाऽधोगतिः, शुभगति:[5a] पुनः समाना, सर्वेऽपि ह्येते सहस्रारान्तोपपाताः सन्नितिरिक्खेंहितो साहस्सारंतिएसु देवेसु। उप्पज्जतियरेसु वि सव्वत्थ वि माणुसेहितो॥ [ । इति वचनात् । तदधोगतिरूनेति न स्त्रीणां शुभगतिनिर्वाणमपि हीयते । तिरश्चा स्वर्गवत् मनुष्याणां मानुषीणां च निर्वाणमपि शुभगतिः समा स्यात् । वाद-विकुर्वाणत्वादिलब्धिविरहे श्रुते कनीयसि च । जिनकल्प-मनःपर्यवविरहेऽपि न सिद्धिविरहोऽस्ति ॥७॥ 'वादलब्धिः' इन्द्राद्यास्थानेषु बृहस्पत्यादिष्वपि प्रतिबन्धकेषु छल-जात्यादिपरिहारेण तत्त्वप्रतिपादनसामर्थ्यम् । 'विकुर्वाणत्वं' विक्रिया[5b]लब्धिरिन्द्रादिरूपोपादानशक्तिः । 'आदि'शब्दाच्चारणादिलब्धिपरिग्रहः । एता लब्धयो न स्त्रीणां भवन्ति । श्रुतमङ्गप्रविष्टमङ्गबाह्यं च, तद् दशमपूर्वादि आर्यिकाणां नोपदिश्यते । जिनकल्पो निरपेक्षसंयमः, मनःपर्ययज्ञानम् ऋजु-विपुलमतिभेदं संयतस्याऽन्तर्मानुषोत्तरवलयतितिर्यग्-मनुष्यमनोमतार्थपरिज्ञानम्, एतच्च न स्त्रीणामस्ति । एवमेतेषां ज्ञान-चारित्र-तपोविभवजन्मनामृद्धीनां चाभावेऽपि स्त्रीणां न मोक्षाभावः । न हीत्थमेव मोक्षः, ___ श्रूयन्ते चानन्ताः सामायिकमात्रपदसिद्धाः । [तत्त्वार्थका० २७] किञ्च, वादादिलब्ध्यभाववदभ[6a]विष्यद् यदि च सिद्धयभावोऽपि । सा[ss]सामवारयिष्यत यथैव जम्बूयुगादारात् ॥८॥ यदि च यथा स्त्रीणां वादाद्यतिशयास्तपोविभवजन्मानो न सन्ति तथा मोक्षोऽपि न स्यात् आगमे वादाद्यतिशयाभाववत् तदभावोऽप्युच्येत । न ह्यस्य परिशेषणे किञ्चिन्निबन्धनमीक्ष्यते । न च निर्वाणनिषेधो नास्त्येव । क्रियते ह्यागमे निर्वाणनिषेधः, सिज्मणा य जंबूहि वोच्छिन्ना [ ] इति । १. "एकमपि तु जिनवचनाद् यस्मान्निर्वाहकं पदं भवति । श्रयन्ते चानन्ताः सामायिकमात्रपदसिद्धाः ॥२७॥" इति सम्पूर्णा तत्त्वार्थभाष्यकारिका। २. तो छित्तेत्ति । "यदि जिनवचनं प्रमाणं तेन सम्प्रति दुःषमाकाले व्युच्छिन्नो जिनकल्प इति सत्यमेतत् प्रतिपत्तयं जिनाभिहितस्थात् सम्बनामकाले जिनकल्पास्तित्ववत् । एतदर्थज्ञापनायात्र गाथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001144
Book TitleStree Nirvan Kevalibhukti Prakarane Tika
Original Sutra AuthorShaktayanacharya
AuthorJambuvijay
PublisherAtmanand Jain Sabha
Publication Year1974
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy