________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । अथोच्येत - असन्निर्वाणाः स्त्रियः, असप्तमपृथिवीगमनत्वात्, वादादिलब्धिविरहितत्वात्, अल्पश्रुतत्वात्, असज्जिनकल्पत्वात्, मनःपर्यायज्ञानविरहितत्वा[3b]त्, अनुपस्थाप्य-पाराञ्चितकशून्यत्वात् । य एवंविधा न ते निर्वान्ति यथा संमूर्छिमादयः, तथाविधाश्च स्त्रियः, तथाहि - समुच्छिमभुजखयरा चउप्पयसप्पित्थिजलचरेहितो।
सत्तसु कमोववज्जति निरएसु ॥ इत्यादिरागम इति । तदसत्
सप्तमपथिवीगमनाद्यभावमव्याप्तमेव मन्यन्ते ।
निर्वाणाभावेन विद्वांसः । 'साध्यस्य साधनभावे भाव एव, साधनस्य साध्यभाव एव भावः' व्याप्तिः । सा यदा प्रमाणेन निर्णीता तदा साध्येन व्याप्तो हेतु: साध्यमिणि प्रसिद्धस्तत्र साधयं भावरूपमभावरूपं वा गमयति यथा - अस्त्यत्राग्निः धूमात्, वृक्षोऽयं शिंशपात्वात् ; नास्तीह घट उपलब्धिलक्षणप्राप्तस्यानुपलब्धः, नास्तीह शीतस्पर्शः अग्नेः, नेह शिशपा वृक्षाभावात्, नैकान्तेन नित्य[a]मनित्यं वा वस्तु अर्थक्रियाकारित्वादिति । नाव्याप्तिरनिर्णीतव्याप्तिर्वा हेतुः, अतिप्रसङ्गात्। तत्र नैतेषु साधनेषु व्याप्तिरस्ति, सप्तमपृथिवीगमनादीनां निर्वाणं प्रत्यकारणत्वादव्यापकत्वाच्च । न हि सप्तमपृथिवीगमनादि निर्वाणस्य रत्नत्रयवत् कारणं सिद्धगुणाष्टकवद् व्यापकं वा येन तदभावे निर्वाणाभावः स्यात् । न ह्यकारण-व्यापकस्य तस्मिन्ननियतस्य विनिवृत्त्या नियमेन निवृत्तिर्भवति । न हि ‘स गोमान् अनश्वत्वात्, वक्ता वा रागाद्यभावात्' इति नियमेन तथाभावो गम्यते, तथा प्रतिबन्धाभावात् । न केवलं सन्दिग्धव्याप्तिकान्येवैतानि साधनानि, अपि तु निर्णीतश्चात्र व्यभिचारः, तथाहि -
अपश्चिमतनवो न तां यान्ति ॥५॥ येषां ततस्तनोः पश्चिमा तनुर्नास्ति ते चरमदेहास्तेनैव जन्मना मुक्तिभाजो न[4b] तां सप्तमी पृथिवीं गच्छन्ति, अपश्चिमतनुत्वविरोधात्, अथ च मुच्यन्ते । तस्माद् ‘असप्तमपृथिवीगमनात्' इत्यनैकान्तिको हेतुः । या चेयमाशा ‘सप्तमपृथिवीगमनाभावो हि तन्निवर्तनसमर्थकर्मार्जनसामर्थ्याभावात्, एवं च प्रतिपन्नासामर्थ्या स्त्री यथा तीव्राशुभपरिणामेऽसमर्था तथोत्कृष्टशुभपरिणामेऽपि, उत्कृष्टशुभपरिणामेन च मुक्तिः ' इति सा दुराशा, अनन्तरेणैवास्यासामर्थ्यस्य प्रतिक्षिप्तत्वात् ।
किञ्च, विषमगतयोऽप्यधस्तादुपरिष्टात् तुल्यमासहस्रारम् ।
गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः ॥६॥ १. न्यायावतारवातिकवृत्तौ [पृ० १२०] उद्धृतेयं कारिका, तत्र तु ०दधोगतिन्यूनता० इति पाठः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org