________________
१४
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलकृतं स्त्रीनिर्वाणप्रकरणम् ।
इति वाङ्मानं नात्र प्रमाणमाप्तागमोऽन्यद्वा ॥३॥
यदेतदुक्तमेतद् वाङमात्रम्, न प्रमाणोपपन्नम् । अविकलकारणस्य हि भवतोऽन्यभावेऽभावाद् 'विरोध इति । स चाभावः प्रमाणात् प्रतिपत्तव्यः । तच्च प्रमाणं प्रत्यक्षमनुमानमागमो[2b] वा स्यात् । न प्रत्यक्षेणात्र प्रतीयते । नानुमानेन, अन्यथानुपपद्यमानस्य लिङ्गस्यानुपलक्षणात् । न च गणधर-प्रत्येकबुद्ध-श्रुतकेवलि-दशपूविणामविगीतं वचनमत्रोपलभामहे यथा देवादिषु सुर-नारएसु चत्तारि होति तिरिए जाण पंचेव [पञ्चसं० ४-१०] इति, येनात्र विरोधनिर्णयः स्यात् । न चान्यत्राभाव इत्यत्राप्यभावः । न हि बलाकायां कार्ष्याभाव इति काकेऽपि तदभावः । न चाप्रमाणकं शक्यमभ्युपगन्तुम्, अतिप्रसङ्गात् ।
जानीते जिनवचनं श्रद्धत्ते चरति 'चायिका[5] शबलम् ।
जिनवचनस्य यथावदवगमः सम्यग्ज्ञानम्, ‘इदमित्थमेव' इति तस्य श्रद्धानं सम्यग्दर्शनम्, तदुक्तस्य यथावदनुष्ठानं सम्यक्चारित्रम्, एतद् रत्नत्रयं नाम । अस्य सम्पत्तौ सर्वकर्मविप्रमोक्षलक्षणो मोक्षः । तदुक्तम् – सम्यग्दर्शन-ज्ञान-चारि[3a]त्राणि मोक्षमार्गः [तत्त्वार्थ. १।१] इति । प्रतीयते चैतत् त्रितयं स्त्रीषु ।
नास्यास्त्यसम्भवोऽस्याम् नास्य त्रितयस्य स्त्रीष्वसम्भवः प्रतीयते येनास्य स्त्रीषु विरोधोऽभ्युपगम्यते ।
अथोच्येत – अस्तु नामास्यात्र सम्भवः । न च तावता मुक्तिः, दीक्षानन्तरं सर्वेषां मुक्तिप्रसङ्गात् । अपि तु रत्नत्रयस्य प्रकर्षपर्यन्तप्राप्तौ, सा च न स्त्रीष्विति न तदस्ति ।
नादृष्टविरोधगतिरस्ति ॥४॥ रत्नत्रयप्रकर्षपयन्तोऽयोगिचरमक्षणो यदनन्तरं मुक्तिः सोऽस्माकमप्रत्यक्षः, न तादृशस्यास्माभिविरोधः शक्यते ग्रहीतुम् । अप्रतिपन्नविरोधस्य च न तस्य तत्राभावः शक्यो विज्ञातुम् । न चाविरोधी भावो निवर्तयति ।
१. अत्र 'विरोधगतिः' इति पाठः शोभन: प्रतीयते । दृश्यतां केवलिभुक्तिप्रकरणे पृ. 43a | तुलना --"द्विविधो हि पदार्थानां विरोधः - अविकलकारणस्य भवतोऽन्यभावेऽभावाद् विरोधगतिः शीतोष्णस्पर्शवत्, परस्परपरिहारलक्षणतया वा भावाभाववत् ।" इति बौद्धाचार्यधर्मकीतिविरचिते न्यायबिन्दौ तृतीयपरिच्छेदे ॥
२. “सुरनारएसु चत्तारि होति तिरिएसु जाण पंचेव । मणुयगदीए वि तहा चउदस गुणनामधेयाणि ॥" इति सम्पूर्णा गाथा दैगम्बरे पञ्चसंग्रहे चतुर्थे शतकप्रकरणे । अस्या व्याख्या -“अथ मार्गणास्थानेषु रचितगुणस्थानानि गाथाचतुर्दशकेन प्ररूपयति देवगत्यां नरकगत्यां च मिथ्यादृष्टयादीनि चत्वारि गुणस्थानानि । तिर्यग्गतौ मिथ्यादीनि पञ्च गुणस्थानानि त्वं जानीहि । मनुष्यगतौ मिथ्यादृगाद्ययोगान्तानि चतुर्दश गुणस्थानानि भवन्तीति जानीहि त्वं मन्यस्व ॥” इति दिगम्बरपञ्चसंग्रहान्तर्गतशतकटीकायाम्, पृ. ९८ [भारतीय ज्ञानपीठ, काशी] ॥ ३. चायिकाः ॥ ४. सम्यग्ज्ञानचारित्राणि S.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org