SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ।। श्रीशंखेश्वरपार्श्वनाथाय नमः ।। ॥ श्रीसद्गुरुदेवेभ्यो नमः ॥ यापनीययतिग्रामाग्रणीभदन्तशाकटायनाचार्यविरचिते स्वोपज़टीकालङ्कृते स्त्रीनिर्वाण-केवलिभुक्तिप्रकरणे तत्राद्यः ॥ स्त्रीनिर्वाणपरिच्छेदः॥ [प्रणिपत्य भुक्तिमुक्तिप्रदममलं धर्ममहतो दिशतः । वक्ष्ये स्त्रीनिर्वाणं केवलिभुक्ति च संक्षेपात् ॥१॥' अस्ति स्त्रीनिर्वाणं पुंवद् यदविकलहेतुकं ] [2a] स्त्रीषु । न विरुध्यते हि रत्नत्रयसंपद् निर्वृतेर्हेतुः ॥२॥ सम्यग्दर्शन-ज्ञान-चारित्राणामन्यूनता संसारज्वरविमोक्षस्य हेतुः । यत्र तानि सम्पन्नानि ते संसाराद् विप्रमुच्यन्ते । न चैतेषां स्त्रीषु केनचिद् विरोधः सिद्धो येन निर्वाणकारणवैकल्यमिति स्त्रीषु निर्वाणाभावः स्यात् । रत्नत्रयं विरुद्धं स्त्रीत्वेन यथाऽमरादिभावेन । अथोच्येत -- स्त्रीषु स्त्रीत्वेनैव तावद् रत्नत्रयं विरुध्यते । न चैतन्नास्ति 'रत्नत्रयस्य केनचिद् विरोधः' इति, अभ्युपगम्यते हि देव-नारक-तिर्यग्-भोगभूमिजादिभावेन विरोध इति । १. दृश्यतां पृ० १ टि०१ ॥ २. S. आदर्श प्रथमपत्रस्यानुपलब्धेः N. P. आदर्शानुसारेण [ ] एतदन्तर्गतो मूलपाठः परिपूरितः ॥ ३. दृश्यतां पृ०१ टि०२ ॥' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001144
Book TitleStree Nirvan Kevalibhukti Prakarane Tika
Original Sutra AuthorShaktayanacharya
AuthorJambuvijay
PublisherAtmanand Jain Sabha
Publication Year1974
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy