________________
१२
शाकटायनाचार्यविरचितं केवलिभुक्तिप्रकरणम् ।। तद्धेतुकर्मभावात् परीषहोक्तिर्न जिन उपस्कार्यः । 'नञ् नाऽभावासिद्धेरित्यादेर्न[:] क्षुदादिगतिः ॥३१॥ परमावधियुक्तस्य छद्मस्थस्येव नान्तरायोऽपि । सर्वार्थदर्शने स्यात् न चान्यथा पूर्वमपि भुक्तिः ॥३२॥ इन्द्रियविषयप्राप्तौ यदभिनिबोधप्रसञ्जनं भुक्तौ । तच्छब्द-रूप-गन्ध-स्पर्शप्राप्त्या प्रतिक्षिप्तम् ॥३३॥ छद्मस्थे तीर्थकरे विष्वणनानन्तरं च केवलिनि । ३चिन्ता मलप्रवृत्तौ या सैवात्रापि भुक्तवति ॥३४॥ विग्रहगतिमापन्नाद्यागमवचनं च सर्वमेतस्मिन् । भुक्ति ब्रवीति तस्माद् द्रष्टव्या केवलिनि भुक्तिः ॥३५॥ 'नाऽनाभोगाहारो निरन्तरः सोऽविशेषितो नञ्वत् । "युक्त्याऽभेदे नाङ्गस्थिति-पुष्टि-क्षुच्छमास्तेन ॥३६॥ तस्य विशिष्टस्य स्थितिरभविष्यत् तेन सा विशिष्टेन । यद्यभविष्यदिहैषां शालीतरभोजनेनेव ॥ ३७॥
॥ इति केवली (लि) भुक्तिप्रकरणम् ॥ ॥ इति स्त्रीनिर्वाण-केवलीयभुक्तिप्रकरणं (णे) ॥ ॥ कृतिरियं भगवदाचार्यशाकटायनभदन्तपादानामिति ॥
१. नश्चाभावासिद्धे N. P. ॥ २. प्रतिव्यूढम् N. P. ॥ ३. चित्तामलप्रवृत्तौ व्यासैवा N. P. ।। ४. नानाभोगाहारः सो विशेषितो नाभूत् P. ॥ ५. इतः आरभ्य सटीकाया: S. प्रतेरनुपलम्भात् पाठोऽयं शुद्धोऽशुद्धो वेति ज्ञातुं न पार्यते ॥ ६. केवलीयं P. ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org