________________
शाकटायनाचार्यविरचितं केवलिभुक्तिप्रकरणम् । 'असति क्षुद्बाधेऽङ्गे लये न शक्तिक्षयो न संक्लेशः । आयुश्चानपवर्त बाधलयौ प्राग्वदधुनापि ॥२०॥ देशोनपूर्वकोटीविहरणमेवं सतीह केवलिनः । सूत्रोक्तमुपापादि न, मुक्तिश्च न नियतकाला स्यात् ॥२१॥ अपवर्त हेत्वभावोऽनपवर्तनिमित्तसंपदायुष्के । स्यादनपवर्त इति तत् केवलिभुक्ति समर्थयते ॥२२॥ आयुरिवाभ्यवहारो जीवनहेतु विनाऽभ्यवहृतेश्च । तिष्ठत्यनन्तवीर्यो विनायुषा[s]कालमपि तिष्ठेत् ॥२३॥ न ज्ञानवदुपयोगो वीर्ये कर्मक्षयेण लब्धिस्तु । तत्रायुरिवाहारोऽपेक्ष्येत न तत्र बाधास्ति ॥ २४ ॥ मासं वर्ष वापि च तानि शरीराणि तेन भुक्तेन । तिष्ठन्ति न चाकालं, ३न वान्यथा पूर्वमपि भुक्तिः ॥२५॥ तैलक्षये न दीपो न जलागममन्तरेण जलधारा । तिष्ठति तनोस्तथा स्थितिरपि न विनाहारयोगेन ॥२६॥ कायस्तथाविधोऽसौ जिनस्य यदभोजने स्थितिरितीदम् । वाङ्मानं नात्रार्थे प्रमाणमाप्तागमोऽन्यद् वा ॥२७॥ अस्वेदादि प्रागपि सर्वाभिमुखादि तीर्थकरपुण्यात् । स्थितनखतादि सुरेभ्यो नाक्षुद् देहान्यता वास्ति ॥२८॥ भुक्तिर्दोषो यदुपोष्यते न दोषश्च भवति निर्दोषे । इति निगदतो निषद्यार्हति न स्थानयोगादेः ॥२९॥ रोगादिवत् क्षुधो न व्यभिचारो वेदनीयजन्मायाः ।
प्राणिन्येकादश जिन इति जिनसामान्यविषयं च ॥३०॥ १. अत्र N. P. मध्ये इत आरभ्य कारिकाणामन्यथा क्रमः । तथाहि --
"आयुरिवा ॥ न ज्ञानव ॥ मासं वर्षं - - ॥असति क्षुद्बाधे ॥देशोनपूर्व .. ॥ अपवर्त ...॥ कायस्तथा ॥ अस्वेदादि ॥ भुक्तिर्दोषो । - ॥ रोगादिवत् ॥ तद्धेतुकर्म ॥ तैलक्षये ॥ परनाव ॥" P.I N. प्रतावप्येवमेव क्रमः, किन्तु तत्र “न ज्ञानव ॥' इति कारिका नास्त्येव ।।
२. 'नपवयं P. । नपवत्यं N. || ३. न चान्यथा N. । चान्यथा P. ॥ ४. यदभोजनस्थिति P. S.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org