________________
शाकटायनाचार्यविरचितं केवलिभुक्तिप्रकरणम् । ज्ञानावरणीयादेर्शानावरणादि कर्मणः कार्यम् । क्षुत् तद्विलक्षणाऽस्यां न तस्य सहकारिभावोऽपि ॥१०॥ क्षुद्बाधिते 'न जाने, न चेक्ष३' इत्यस्ति ननु विपर्यासः । तद्वेद्यं सहकारि तु तस्य, न तद् वेद्यसहकारि ॥११॥ ज्ञानावरणादीनामशेषविगमात् क्षुधि प्रजातायाम् । अपि तज्ज्ञानादीनां हानिः स्यादितरवत् तत्र ॥१२॥ नष्टविपाकः (का) क्षुदिति प्रतिपत्तौ भवति चागमविरोधः । शीतोष्ण-क्षुद्-उदन्यादयो हि ननु वेदनीय इति ॥ १३ ॥ 'उदये फलं न तस्मिन्नुदीरणेत्यफलता न वेद्यस्य । नोदीरणा फलात्मा तथा भवेदायुरप्यफलम् ॥ १४ ॥ अनुदीर्णवेद्य इति चेद् न क्षुद्, वीर्य किमत्र, न हि वीर्यम् । क्षुदभावे, क्षुदभावे न स्थित्यै क्षुधि तनोविलयः ॥१५॥ अपवर्तते[5] कृतार्थ नायुर्ज्ञानादयो न हीयन्ते । जगदुपकृतावनन्तं वीर्य किं गततृषो भुक्तिः ॥१६॥ ज्ञानाद्यलयेऽपि जिनेऽमोहेऽपि स्यात् क्षुदुद्भवे भुक्तिः । वचन-गमनादिवच्च प्रयोजनं स्वपरसिद्धिः स्यात् ॥१७॥ ध्यानस्य समुच्छिन्नक्रियस्य चरमक्षणे गते सिद्धिः । सा नेदानीमस्ति स्वस्य परेषां च कर्तव्या ॥१८॥ रत्नत्रयेण मुक्तिर्न विना तेनास्ति चरमदेहस्य । भुक्त्या तथा तनोः स्थितिरायुषि नन्वनपवयेऽपि ॥१९॥
१. णास्यान्न तस्य N.॥ २. क्षुद् बाधते N.॥
३. 'ननु क्षुबाधिते पुरुषे 'नाहं जाने, न चेक्षे' इति विपर्यासोऽस्तीति चेत्' इत्याशयोऽत्र भाति । तुलना -- “अस्मदादौ हि क्षुत्प्रभवपीडाक्रान्ते ज्ञानादेरभाव: सुप्रतीतः, 'क्षुत्पीडितोऽहं न किच्चिज्जानामि, न किच्चित् पश्यामि, उत्थातुमपि न शक्नोमि' इति प्रतीतेः।"-- न्यायकुमुदचन्द्रे पृ० ८६१ पं० २३ ॥
४. विगमा क्षुधि P.॥ ५. उदयं P.॥ ६. क्षुदुद्गते भुक्तिः S.॥ ७. चरमे N.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org