________________
'अथ केवलिमुक्तिप्रकरणम् ।
अस्ति च केवलिभुक्तिः समग्र हेतुर्यथा पुरा, भुक्तेः । पर्याप्ति-वेद्य-तैजस-दीर्धायुष्कोदयो हेतुः ॥१॥ *२नष्टानि न कर्माणि क्षुधो निमित्तं, विरोधिनो न गुणाः । ज्ञानादयो जिने किं सा संसारस्थिति स्ति ॥२॥ तम इव भासो वृद्धौ ज्ञानादीनां न तारतम्येन । क्षुद्धीयतेऽत्र* न च तज्ज्ञानादीनां विरोधगतिः ॥३॥ अविकलकारणभावे तदन्यभावे भवेदभावेन । इदमस्य विरोधीति ज्ञानं न तदस्ति केवलिनि ॥४॥ क्षुद् दुःखमनन्तसुखं विरोधि तस्येति चेत् कुतस्त्यं तत् । ज्ञानादिवन्न तज्जं विरोधि न परं ततो दृष्टम् ॥५॥ आहारविषयकाङ्क्षारूपा क्षुद् भवति भगवति विमोहे । कथमन्यरूपतास्या न लक्ष्यते येन जायेत ॥६॥ न क्षुद् विमोहपाको यत् प्रतिसङ्ख्यानभावननिवा। न भवति, विमोहपाकः सर्वोऽपि हि तेन विनिवर्त्यः ॥७॥ शीतोष्णबाधतुल्या क्षुत् तत् तत्प्रतिविधानकाक्षा तु । मूढस्य भवति मोहात् 'तया भृशं बाध्यमानस्य ॥८॥ "तैजसमृदूकृतस्य द्रव्यस्याभ्यवहृतस्य पर्याप्त्या । ६उत्तरपरिणामे क्षुत् क्रमेण भगवति च तत् सर्वम् ॥९॥
१. दृश्यतां पृ० १ टि० १॥ २. अत्र कतिपयांशस्य टीकायां खण्डितत्वात् * * एतच्चिह्नान्तर्गतः पाठः टीकायां नोपलभ्यते ॥ ३. ज्ञाने N. P.॥ ४. तथा P. ॥ ५. इतः परं भूयसां टीकापत्राणामनुपलब्धः अष्ट आर्याष्टीकायां नोपलभ्यन्ते ।। ६. अनुत्तर N. P. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org