________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् ।
२३ प्रवृद्धसंवेगो विशुद्धिस्थानानि उत्तरोत्तराणि उपगम्य स सेडुमर्हति, न हि तच्चीरं तच्चित्तविशुद्धि प्रतिबध्नाति । तथा
उपसर्गे वा चीरे, उपसर्गेण मृगध्वजादाविव कस्मिश्चित् समाहिते यतावासञ्जिते चीरे मुक्तिर्न प्राप्नोति ।
अथोच्येत - त[13b]त्र भवति मुक्तिः , न हि तच्चीरं स्वयं तेन परिगृहीतम्, अन्येन हि बलादङ्गे संयोजितम्, न चाङ्गसङ्गमानं परिग्रहः, अपि तु मूर्छा परिग्रह इति । यद्येवम्, आर्यापि सर्वसङ्गपरित्यागेन संविग्ना मुक्त्यर्थमुत्थिता गुरुषु निक्षिप्तात्मा तदादेशमाचरन्ती न मोक्षं परित्यज्य स्वयं मूछिता वस्त्रं ग्रहीतुमर्हति, अपि तु अर्हदादेशो वस्त्रग्रहणमिति न परिग्रहः ।
किञ्च,
अङ्गादिः संन्यस्यते चान्ते ॥२१॥ मारणान्तिकी संलेखनां योषिता [तत्त्वार्थ ७।१७] इति मरणान्ते शरीरमादिं कृत्वा सर्व एव संयोगास्त्यज्यन्ते, तत्र कुतो वस्त्रं प्रच्छन्नप्रदेशगताया वस्त्रेणाङ्गसङ्गेऽपि मोक्ष[14a]प्रतिबन्धिनि मोक्षकामायाः ? सोऽपि परिहर्तुं शक्यत इति ।
न च वस्त्रात् स्त्रीनिर्वाणाभावः । अथोच्येत - मुक्त्यङ्गमचेलत्वं नोच्येत तदन्यथा नरस्यापि । आचेलक्यायोग्या[5]योग्या सिद्धेरदीक्ष्य इव ॥२२॥
आचेलक्यं मुक्तेः कारणम्, मुक्यर्थिनां कर्तव्यतयोपदिश्यमानत्वात्, मिथ्यादर्शनादित्यागवत् । अन्यथा पुरुषाणामपि तद् नोपदिश्येत, मुक्यर्थिनां मुक्तेरप्रयोजकत्वात्, सम्यग्दर्शनादित्यागवत् । तस्य च मुक्त्यङ्गस्याऽऽचेलक्यस्यायोग्या स्त्री, तस्या [आचेलक्यनिषेधात् । अतश्च मोक्षकारणायोग्यायाः स्त्रियोऽदीक्षाहस्य बालादेरिव मोक्षाभाव इति ।
इति जिनकल्पादीनां मुक्त्यङ्गानामयोग्य इति सिद्धेः । स्यादष्टवर्षजातादिरयोग्योऽदीक्षणीय इति ॥२३॥
एवं ब्रुवतस्तेऽतिप्रसङ्गः, जिनकल्पादिष्वप्यस्य न्यायस्य तुल्यत्वात् । तथाहि - जिनकल्पो यथालन्दविधिः परिहार इति मुक्त्यङ्गम्, मुक्यर्थिनः कर्तव्यतयोपदेशात्, सम्यग्दर्शनादिवत् । अन्यथा मुक्यथिनस्तन्न कस्यचिदप्यादिश्यत, मुक्तेरप्रयोजकत्वात्, सम्यग्दर्शनादित्यागवत् । तस्यैवं मुक्त्यङ्गस्य जिनकल्पादेरयोग्यो यस्याष्टौ वर्षाणि जातस्य तदादिः,
१. वीक्ष इव _N. S. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org