SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ २४ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । जम्मेण तीसवरिसो परियाए गूणवीसवरिसो उ । परिहारं पट्ठविडं अरिहइ मणुसो उ एरिसओ ॥ [ ] इति वचनात् । ततश्च मोक्षकारणा[15a]योग्यस्य त्रिंशद्वर्षजातादेरधस्तनस्यादीक्षणीयस्येव मोक्षाभाव इति समानो न्यायः । न चैवं मोक्षाभावः, अष्टवर्षजातस्यापि मोक्षाभ्युपगमात् । तस्मादन्यायोऽयम् । यथा चात्र नियमो नास्ति 'निरपेक्षसंयतानामेव जिनकल्पादीनां मोक्षो न सापेक्षसंयतानां स्थविराणाम्, स्थविरकल्पानामेव च न जिनकल्पादीनाम्' इति तथा सचेलानामपि यथासूत्रमाचरतामिति । यदि सचेलानामचेलानां च सापेक्षसंयतानां निरपेक्ष संयतानां चोभयेषां मुक्तिः किं दुष्करचर्या शास्त्रे उपदिश्यते ? न हि सुखसाध्येऽर्थे दुःखोपदेशो युक्त इति चेत्, उच्यते . संवर[15b] निर्जररूपो बहुप्रकारस्तपोविधिः शास्त्रे । योगचिकित्साविधिरिव कस्यापि कथञ्चिदुपकारी ।। २४ ।। यथा द्रव्य-क्षेत्र-काल-भावाश्रयो द्रव्यादीनामनेकरूपत्वाद् आरोग्यरूपे एकस्मिन्नपि कार्ये विविधदोषरोगावस्थाविषयोऽनेकोपयोगकालप्रकारोऽनेको योग उक्तश्चिकित्साशास्त्रे कस्यचिदातुरस्य कश्चित् कथञ्चिदुपकारी भवतीति तथाऽध्यात्मशास्त्रेऽपि विविधशक्तिकर्मापेक्षस्तपोविधिरनेकः सर्वोऽपि सञ्चितकर्मनिर्जरा -ऽऽगामिककर्मनिरोधलक्षण उक्तः । एवं स्त्रीनिर्वाणप्रतिषेधसाधनाभावं प्रतिपाद्ये [16]दानीं केन स्त्रीनिर्वाणाभाव इत्याह - वस्त्रान्न मुक्तिविरहो भवतीत्युक्तं समग्रमन्यच्च । रत्नत्रयान्न चान्यद् मुक्त्यङ्गं शिष्यते सद्भिः ॥ २५ ॥ ' वस्त्रं नाम परिग्रहः, तद्योगादस्याः संयमस्थानमेव नास्ति, कुतो मोक्षः ?' इत्येतावन्निराकृतम् । इदानीं यदन्यत् पुरुषेषु मुक्तिसाधनतयाऽङ्गीक्रियते तत् सर्वं स्त्रीष्वप्यविकलम् । तद्धि रत्नत्रयम् । न च तस्य वैकल्यं तत्रोपलभ्यते । न च तस्मादन्यत् पौंस्नमन्यद्वा मुक्ते: कारणम् । मुक्तेर्हि कारणमार्या रत्नत्रयमेवाहुः सम्यग्दर्शन- ज्ञान- चारित्राणि मोक्षमार्गः [ तत्त्वार्थ ० १|१] इति । ज्ञानं सुमार्गदीपं सम्यक्त्वं तदपराङ्मुखत्वाय । चारित्रमाश्रवघ्नं क्षपयति कर्माणि तु तपोऽ [16b]ग्निः ॥ नाणं पयासयं सोहओ तवो संयमो य गुत्तिकरो । तिहंपि समायोगे मोक्खो जिणसासणे दिट्ठी || [आव० नि० १०३] इति 'तदक्षतम् । १. ०षरागा० S. 11 २. पौस्तम० S. 11 ३. तदन्त्यतं S. । ( तदन्यूनम् ? ) ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001144
Book TitleStree Nirvan Kevalibhukti Prakarane Tika
Original Sutra AuthorShaktayanacharya
AuthorJambuvijay
PublisherAtmanand Jain Sabha
Publication Year1974
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy