________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् ।
२५
यद्येतावता मुक्तिः कि केषाञ्चित् स्तेन-राजापकारि-द्वयक्षरादीनां तद्योगे प्रव्राजना निषिद्धा ? यान्तु ते मोक्षिकी दीक्षां प्रतिपद्य मोक्षम्, कस्तत्र भवतो मत्सरः ? इति । अतो रत्नत्रयादन्येनापि मुक्त्यङ्गेन भवितव्यं यदभावात् प्रतिषिद्धदीक्षा: सत्यामपि दीक्षायां न मुच्यन्त इति चेत्, उच्यते -
प्रवाजना निषिद्धा क्वचित्तु रत्नत्रयस्य योगेऽपि । धर्मस्य हानि-वृद्धी निरूपयद्भिविवृद्धयर्थम् ॥ २६ ॥
स्तेन-राजापकार्यादीनां केषाञ्चित् प्रव्राजनायां तेषां प्रव्रजितानां प्रव्राजयितुः सङ्घस्य च[17a[ प्रत्यपायः स्यात् । द्वयक्षर-भृतकादीनां प्रव्राजने धर्मस्य महाजनमध्ये लाघवं सर्व एवैते एतादृशा इति । ततश्च न कश्चित् कुलपुत्रो जुगुप्सया 'धर्मं प्रतिपद्यत इति धर्मस्य हानिः, तत्परिहारे तु वृद्धिरिति धर्मस्य हानि-वृद्धी निरूपयद्भिर्भगवद्भिस्तेषां प्रव्राजना निषिद्धा । न तु रत्नत्रयादन्यत् तत्र पौरुषेयं मोक्षकारणमस्ति । यदि च स्यात् तदपि तत्रैव मा भूद् यत्र प्रतिषेधः, नान्यत्र, अतिप्रसङ्गात् ।
अप्रतिवन्धत्वाच्चेत् संयतवर्गेण नायिकासिद्धिः ।
अथैवं मन्यत - यदि 'पुरुषा[:] स्त्रियोऽपि संयता मुक्तिभाजः उभये[17b]ऽपि गुणेन सदृशा भवन्ति ततः किं स्त्रियः शतवर्षप्रव्रजिता अप्यद्यप्रव्रजितस्य साधोर्वन्दिका भवन्ति प्रतिवन्दनं च न लभन्ते ? ततो मन्यामहे - न तासां मोक्ष इति ।
वन्द्यन्तां ता ['यदि तेनोनत्वं कल्प्यते तासाम् ॥ २७ ॥]
यदि सम्पन्नेऽपि रत्नत्रये वन्दनाभावान्न स्त्रीणां निर्वाणं वन्दनमप्येवं सम्यग्दर्शनादिवद् मुक्त्यङ्गं वन्द्यन्तां ता भवद्भिरेवंवादिभिरायिकाः । न हि तासां तावता वन्दनाभावमात्रेणात्रभवद्भिर्मोक्षं विनाशयितुं युक्तम् । न च भवतां तावता काचित् क्षतिः । वयं पुनः संयतवर्गवन्दनेनैव कर्मनिर्जराकारिणा तासां मोक्षः, न प्रतिवन्द्यत्वेन । न ह्यन्यथा भगवानेवं व्यवस्थां कर्तु
........................................................................
[सन्त्यूनाः पुरुषेभ्यस्ताः स्मारणवारणादिकारिभ्यः । तीर्थकराकारिभ्यो न तावताऽसिद्धिरङ्गगतेः ॥ २८ ॥ अर्हन् न वन्दते न च जिनकल्पादिरिति गणधरादीनाम । प्राप्ताऽन्यथाऽविमुक्तिः]]
......
......
.......।
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
मूलादर्शानुसारेण परिपूरितः॥
१. धर्मे S.।। २. (पुरुषा इव ? ) ।। ३. अंशोऽयं N. P. ४. इतः परम् अष्टादशं संपूर्णमपि पत्रं S. प्रतौ न विद्यते । ५. कारिकात्मकोऽयमंशः N. P. प्रती अवलम्ब्य पूरितः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org