SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । .....[18a]तिवन्द्यन्त इति स्त्रीणां निर्वाणम् । अर्हन्तं गणधरादयो वन्दन्ते, न तानहन्, न हि तीर्थकरा गार्हस्थ्येऽपि सिद्धव्यतिरेकेणान्यान् वन्दन्ते, ‘नमः सिद्धेभ्यः' इत्युक्त्वा श्रामण्यं प्रतिपद्यन्ते । तथा जिनकल्प-प्रतिमाप्रतिपन्नादयोऽपि वन्द्यन्ते न वन्दन्त इति गणधरादीनां स्थविरकल्पस्थादीनां च मुक्त्यभावप्रसङ्गः, अर्हदादीनामेव मुक्तिः स्यात् । अथैवं मन्येत – अर्हन्निति महत् स्थानं न्यूनं गणधरा इति । तथा जिनकल्प[:] स्थविरकल्पश्च......स्तस्मादर्हदादयो न वन्दन्त इति । एवं तर्हि वन्द्यानां मुक्तिभाव (वेऽ) प्रतिवन्द्यानामिति हीनम् । किञ्च, स्थानं स्त्रीपुंसयोस्तुल्यम् ॥२९॥ स्त्रीपुंसयोरप्येतच्छक्यते वक्तुम् – पुरु[18b]ष इति महत् स्थानं स्त्रीति न्यूनमिति ।। तच्चोक्तम् - 'सारण-वारण-परिचोयणाइ पुरिसो करेइ [ । ये यान्न मुक्तिभाजो वन्दन्ते ते तथैव मुच्यन्ते । इत्यप्यवन्दनं स्यान्नामोक्षोऽवन्दनात् तेन ॥३०॥ __इति सङ्ग्रहार्या । अपकृष्यते श्रिया स्त्री पुंसः सर्वत्र कि न तद् मुक्तौ । इत्यमुनाऽक्षेपि, यदप्युच्यते कैश्चिद् बालैः - स्वर्गे या महतीन्द्रश्रीः इह च चक्रधर-बलदेव-वासुदेवप्रभृतिमण्डलीकमहामण्डलीकलक्ष्मीः प्रतिगृहं च नायकत्वं पुरुषाणामेव न स्त्रीणामस्ति, एवमिह श्रिया स्त्री पुरुषादपकृष्यमाणा दृश्यते सा मुक्तिश्रियाप्येवं ततः किं नापकृष्यते ? तत्राप्यपकर्ष एवास्या युक्तः, तथा दर्शनात् । ततश्च न स्त्रीनिर्वा[19a]णमिति । एतदपि गणधरादिमोक्षेणैव प्रतिक्षिप्तम् । यदि महत्याः श्रियोऽनर्हस्याऽमुक्तिः महत्यास्तीर्थकरलक्ष्म्या गणधरादयश्चक्रधरादिलक्ष्म्याश्च ब्राह्मणा वैश्याश्चानहर्हाः, क्षत्रिया एव च ते । नरदेव-राम-केसव-जिण-निव्वइ-विरइ-देस-सम्मत्तं। रयणप्पभाइसत्तहिमायातोऽणंतरेण लभे॥ १. इतः परं पाठपूर्तिनिर्देशकम् A इदृशं चिह्न S. प्रतौ विद्यते, किन्तु पाठः क्वचनापि सम्पूरितो न विलोक्यते । अत कश्चिदंशोऽत्र न्यूनः स्यात् ।। २. (मुक्तिभावः?)॥ ३. “सारण-वारण-पडिचोयणाइ पुरिसा करेइ ण हु इत्थी" इति सम्पूर्ण गाथार्धमुद्धृतं न्यायकुमुदचन्द्रे पृ० ८७६ ॥ ४. ०श्चानहक्षित्रिया S.|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001144
Book TitleStree Nirvan Kevalibhukti Prakarane Tika
Original Sutra AuthorShaktayanacharya
AuthorJambuvijay
PublisherAtmanand Jain Sabha
Publication Year1974
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy