________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् ।
इति पङ्कप्रभाया अपि पृथिव्या आगतानां मुक्तिः पठ्यते न तीर्थकराद्यर्हतेति तेषां मुक्त्यभावप्रसङ्गः । यथा च तेषां गणधरादीनां तत्तल्लक्ष्मीमनहतामपि मुक्तिस्तथा स्त्रीणामपि स्यात् । न हि तल्लक्ष्मीयोग्यता मुक्तेर्मार्गः, अपि तु सम्यग्दर्शन-ज्ञान-चारित्राणि । [19b]तानि चेत् समग्राणि, किमन्येन ? भवति मुक्तिः । न ह्यविकलकारणं कार्यमभवदास्ते । तानि चेद् विकलानि तदेव वैकल्यं वक्तव्यम्, किमन्येनाप्रयोजकेन कथितेन ? किञ्च,
अस्त्रीपुंसाः सिद्धाः । स्त्री श्रिया पुरुषादपकृष्यते इति च स्त्रीपुरुषावस्थायाम्, न तु गत्यन्तरे तद्रूपत्यागे । सिद्धावस्थायां च न स्त्रीपुरुषा(ष)भाव इति न किञ्चिदेतत् । किञ्च,
सममरुक्त्व म् ॥३१॥
मुक्तिश्री म सकलसंसारज्वरमोक्षः आत्यन्तिकमारोग्यम्, न तु दानाक्षेपादिसमन्वितः पूण्यकर्मविपाको बहिविभवः । तद्यथेह ज्वरादिविगमरूपमारोग्यं स्त्रीणां पुरुषाणां च समानं तथा मुक्तावपि भवितुमर्हति [20a]कारणसम्पदस्तुल्यत्वात् ।
मायाचापलादिबहुलाः स्त्रियो भवन्ति, तन्न तस्या निर्वाणमिति चेत्, मायादिः पुरुषाणामपि देशादिप्रसिद्धयभावश्च । षण्णां संस्थानानां तुल्यो वर्णत्रयस्यापि ॥३२॥
मायादिः पुरुषाणामपि, मोहोदयस्य स्त्रीपुरुषयोरविशेषात् । यथा पुरुषाणां 'मोहशाततः सर्वदोषप्रतिकूल: प्रतिसंख्यानरूपो मार्गस्तथा स्त्रीणामपि । तन्न ततो निर्वाणाभावः । अन्यथा पुरुषाणामपि मा भूत्, तेषामपि मायाद्युपपत्तेः । ननु च यदि स्त्रीणामस्ति निर्वाणं तन्निर्वाणज्ञानोत्पत्तिविहरणभूमयः कालाश्च किं न प्रसिद्धाः यथा पुरु[20b]षाणां चम्पा-सम्मेतो-ज्जयन्तवाड-राजगृहप्रभृतयो भूमयः स्वात्यादयश्च कालाः ? ततो न स्त्रीनिर्वाणमिति । देशादिप्रसिद्धेरतत्कारणव्यापकत्वान्न तन्निवृत्त्या निर्वाणनिवृत्तिः कर्तृस्मरणनिवृत्त्या पौरुषेयत्वनिवृत्तिवदिति प्रतिक्षिप्तम् । प्रसिद्धाश्च रामकल्पा (ल्या? ) दीनाम् । अस्माकं स्त्रीनिर्वाणमनभ्युपगच्छतामप्रसिद्धा इति चेत्, मीमांसक-लोकायतिकादीनां पुरुषनिर्वाणादिप्रदेशा अप्यप्रसिद्धाः । तन्न तत्प्रसिद्धयभावस्तदभावे प्रमाणम् ।
१. छहत्तेति० ॥ २. (हाना० ? ) ॥ ३. मोहसाततः S। (मोहसातनः ? ) ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org