________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । किञ्च, देशादिप्रसिद्धयभावश्च षण्णां संस्थानानां तुल्यो वर्णत्रयस्यापि । न हि निर्वाणजुषां सर्वेषामपि तेषां भूम्यादयः प्रसिद्धा एव[21a] भवन्ति, नियमहेत्वभावात् । यदि च तदभावादनिर्वाणमतिप्रसङ्गः। सन्ति हि भूयिष्ठा अप्रसिद्धनिर्वाणभूम्यादयः । न ह्यत्रात्र इमे इमे निर्वाणा इति षण्णामपि संस्थानानां त्रयाणामपि वर्णानां साकल्येन तद्देशादिप्रसिद्धिरस्ति । अथ तेषां तदभावेऽपि मुक्तिः, कस्तवार्यिकासु प्रद्वेष: ? तस्मात् कारणसाकल्ये न कश्चित् कार्य निषेद्धमीश्वर इति स्त्रीनिर्वाणकारणवैकल्यमेव दर्शनीयम् । तच्चाशक्यम् ।
अथोच्यते - स्त्री नाम मन्दसत्त्वा मुक्त्यङ्गसमग्रता न तेनात्र ।
स्त्रियो नाम मन्दसत्त्वा भवन्ति । न हि तासां पुरुषाणामिव सत्त्वाधिकतास्ति । मन्दसत्त्वानां च 'सर्व सत्त्वे प्रतिष्ठितम्' [ ] इति कथं कातरदुर्विगाहं रत्नत्रयं समग्रतामनु भवेदिति ।
तत् कथमनल्पघृतयः सन्ति हि शीलाम्बुनिधिवेलाः ॥३३॥
इह हि सत्त्वं तपःशील[21b]धारण एषितव्यम्, नान्यदनङ्गत्वात् । तच्चानल्पधृतिबलमार्यासु सुदुर्धरतपःशीलवहासु दृश्यते । प्रसिद्धाश्च सत्त्वेनार्याः शासने श्रूयन्ते -
ब्राह्मी सुन्दर्या राजिमती चन्दना गणधरान्या[:] । अपि देवासुरमहिता विख्याताः शीलसत्त्वाभ्याम् ।। ३४ ॥
ब्राह्मयादीनां भगवतीनामन्यासामपि सकलनरामरलोकमहितानामार्याणां सकलभुवनातिशायि शीलं तदनुमेयं च महत् सत्त्वं विख्यातम् ।
गार्हस्थ्येऽपि सुसत्त्वा विख्याताः 'शीलवतितमा जगति । "सीतादयः कथं तास्तपसि विसत्त्वा विशीलाश्च ॥३५॥
लोकेऽपि 'सीतादयो गृहस्थाश्रमेऽप्यभेद्यशीला महासत्त्वाः श्रूयन्ते । ता एव कथमशेषसंसारज्वरनिर्वहणी परित्यक्तसर्वभोगां भागवतीं दीक्षां महापुरुषानुत्ती(ची)र्णां सत्त्वविवर्धिनीमुपादाय विसत्त्वाः [22a]विशीलाश्च भवेयुः ? किञ्च,
सन्त्यज्य राज्यलक्ष्मी पतिपुत्र भ्रातृ[बन्धु]सम्बन्धम् । पारिवाज्यवहायाः किमसत्त्वं सत्यभामादेः ॥३६॥
नारायणभार्याणां प्रसिद्धपरित्यागमहिमानां निर्व()ढसंयमभराणामशक्तिकल्पनां प्रति कथमप्यविषयाणामुदाहरणेन स्त्रीणामसत्त्वकल्पना प्रतिक्षिप्यते ।
१. योगशास्त्रस्वोपज्ञवृत्तौ [३-१२० पृ० २०७ B] न्यायावतारवातिकवृत्ती [पृ० १२१] चोद्धृतेयं कारिका । न्याय कुमुदचन्द्रेऽपि उद्धृता, तत्र च 'शीलवतया' इति पाठः पृ० ८६९ ।।
२. शीताSU
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org