________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् महता पापेन स्त्री मिथ्यात्वसहायकेन न सुदृष्टिः । . स्त्रीत्वं चिनोति, तन्न तदङ्ग क्षपणेति निर्मानम् ॥ ३७ ॥
स्त्रीत्वनिर्वर्तनं कर्म महत् पापम् । तथाहि - यद्यपि सास्वादनसम्यग्दृष्टिरपि तदर्जयति, सम्यग्दर्शनमवसादयन् मिथ्यादृष्टिरेवेति मिथ्यादर्शनाभिमुखो मिथ्यादर्शनेनैव व्यपदिश्यते, न सम्यग्दर्शने[23b]न । सम्यग्मिथ्यादृष्टयोऽपि तावत् तन्नार्जयन्ति, किमङ्ग सम्यग्दृष्टयः । स्त्रीत्वेनोत्पद्यमानोऽपि मिथ्यात्वपरिणत एवोत्पद्यते जीवः ।
मणुसीसु तिरिक्खीसु य वंसाइखिईसु जोइसंतीसु। इत्थीसु य पडिसिद्धो सम्मट्टिीण उववाओ॥ [
इति वचनात् । तदेवं महापापनिष्पन्ने स्त्रीशरीरे नारकादिशरीरवद् न कर्मणां क्षपणा सम्भाव्यत इति चेत्, तदेतद् निष्प्रमाणकम्, न हि 'अत्र स्त्रीशरीरे क्षपणा न' इत्यत्र प्रमाणमस्ति, स्त्रीत्वेन तुल्ययोगक्षेमेषु संस्थानादिषु क्षपणाभ्युपगमात् । न हि स्त्रीशरीरादन्यत् शरीरं समचतुरस्रसंस्थानाद्वान्यत् संस्थानमिति प्रकर्षपर्यन्तप्राप्तं रत्नत्रयम[24a]शेषकर्मनिर्मूलनैकव्यापारं कर्मराशावग्निवत् तृणराशावुदास्ते । तथाहि -
अन्तःकोटीकोटीस्थितिकानि भवन्ति सर्वकर्माणि । सम्यक्त्वलाभ एवाशेषाघक्षयकरो मार्गः ॥ ३८ ॥
यदैव जीवः प्रवृद्धविशोधिपरिणामः सम्यग्दर्शनोन्मुखो भवति नाद्यापि सम्यग्दर्शनं प्रतिपन्नस्तदैव सप्ततिसागरोपमकोटीकोटीस्थितिकान्यपि कर्माण्यन्तःसागरोपमकोटीकोटीस्थितिकानि भवन्ति । यदा त्वशेषकर्मद्रुमनिर्दहनो मार्गः स्वोदयनिरस्तमिथ्यात्वा- संयमकषायः सम्पन्नस्तदा किमत्र वाच्यमशेषकर्मक्षयो भवति । न हि सम्यग्दर्शनमनपास्यदेव मिथ्यादर्शनमुदेति ज्ञानं चाज्ञानं चारित्रं चाचारित्रं तां तामवस्थामापद्यमानमसंयम-कषाय-प्रमादयोगान् । न च निर्मूलित[24b]मिथ्यात्वा-ऽसंयम-कषाय-प्रमादयोगस्य जन्मान्तरोपादानं सम्भाव्यते । तथा चाधीयते -
मिथ्यात्वा-संयम-कषाय-प्रमाद-योगा बन्धहेतवः [तत्त्वार्थ सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः [तत्त्वार्थ० १/१] इति ।
१. 'स्त्रीशरीरादन्यत्' इति पाठः S प्रतौ चिह्नं कृत्वा केनचिल्लेखकेनाधस्तात् पूरितः। 'शरीरादन्यत्' इति पाठस्त्वत्र संगतोऽस्माकं प्रतिभाति । अथवा न हि स्त्रीशरीरं समचतुरस्रसंस्थानाद्वान्यत् संस्थानमिति' इति पाठोऽत्र शोभनो भाति ।।
२. 'मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः' [८-१] इति तत्त्वार्थसूत्रे पाठः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org