________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम्
अन्योऽप्याह -
'दुःखे विपर्यासमतिस्तष्णा चाबन्धकारणम् । जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छति ॥ प्रमाणवा. १/८३] निरालोको लोको विषयसुखतृष्णाविलसितै
__तेच्छो दुर्वृत्त्या निरधिकृतबुद्धिस्तव मते। अरण्यानी मोहादुपसरति हा सद्भवमयीं
भवन्वा (न्तं?) त्रातारं शिवममृतयोनि न लभते ॥ यदि रत्नत्रयं स्त्रीषु न सम्पद्येत तदेव वक्तव्यम्, किमन्येन ? इत्युक्तम् । तच्चाशक्यम्, तत्र प्रमाणाभावात् ।
ननु च मा भूत् स्त्रीणां निर्वाणाभावे प्रमाणम्, तदस्तित्वे किं प्रमाणम् ? न चेदानीमिहोपलभ्यमानमार्गोपलम्भादेव तन्निश्चयः, विप्रकृष्टावस्थानां कारणानां कार्ये व्यभिचारात्, अन्यथेदानीं सर्वेषां मुक्तिप्रसङ्गात् । यदवस्थानन्तरं मुक्तिः तत्र प्रकर्षपर्यन्तप्राप्तौ स्त्रीणां न वः किञ्चन प्रमाणमस्ति, परिणामशक्तीनां दुरवसानत्वादिति चेत् ; एवं ब्रुवाणस्य पुंनिर्वाणेऽपि किं प्रमाणम् ? तत्रापि हि शक्यमेवं वक्तुम् । रत्नत्रयप्रकर्षपर्यन्तप्राप्तिसम्भावना च पुंवत् । स्त्रीष्वपि स्यात् ।
किञ्च, अत्रागमः प्रमाणं यत्प्रसादादस्माकमयमवष्टम्भः, यतः पराङ्मुखो जन्तुर्जन्मजलधिमतिगाहते । कोऽसावागम इति चेत्,
अष्टशतमेकसमये पुरुषाणामादिरागमः सिद्धौ । स्त्रीणाम्,
अट्ठसयमेगसम[25b]ये पुरिसाणं निव्वुई समक्खाया।
थीलिंगेण य वीसं सेसा वसगं ति बोडन्या ॥ [ इत्यादिरागमः स्त्रीनिर्वाणे प्रमाणम् ।
अथोच्येत - सत्यम्, स्त्रीनिर्वाणाभिधाय्यागमो विद्यते, नास्माकमत्रापह्नवः, . किन्तु स्त्रीशब्दस्य स्तन-प्रजनवौदिमती स्त्री नार्थः, अपितु पुरुषविशेष एव यत्र स्त्रीवेदोदयः, स्त्री
१. बौद्धाचार्यधर्मकीतिविरचितस्य प्रमाणवार्तिकस्येयं कारिका।
"दुःखे विपर्यासमतिस्तृष्णा चाबन्धकारणम् आश्लेषहेतुर्जन्मिनः, तृष्णया आत्मस्नेहोऽप्याक्षिप्तो हेतुवद् वेदितव्यः। यस्य तन्मलितात्मग्रहस्य ते विपर्यासस्तृष्णा च न स्तो न विद्यते न स जन्माधिगच्छति" इति मनोरथनन्दिविरचिताय प्रमाणवातिकवत्तौ। प्रमाणवार्तिकपरिच्छेदानां क्रमद्वयं वर्तते । क्रमान्तरे द्वितीयपरिच्छेदे ८१ संख्याकोऽयं श्लोकः ।।
२. दसछत्ति ।
न्यायकुमुदचन्द्रे [पृ० ८६९] उद्धृतेयं गाथा तत्र 'दसकत्ति' इति 'दसकंति' इति च पाठान्तरद्वयम् । न्यायावतारवातिकवृत्तावपि [पृ० १२१] उद्धृतेयं गाथा तत्र च 'दसगं तु' इति 'दसगं च' इति च पाठान्तरद्वयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org