________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् स्वभावे च पुरुष स्त्रीशब्दो लोके प्रयुज्यते, तथा च पुरुषकारशून्यं क्लीबं दृष्ट्वा वक्तारो भवन्ति 'स्त्री अयम्, न पुरुषः' इति । तदयुक्तम्,
न मुख्ययोगे गौणोऽर्थः
पुरुषः स्त्रीशब्दस्य गौणोऽर्थः, स्त्र्येव मुख्यः, स्त्रियां च स्तन-प्रजनवौदिमत्यां मुख्यऽर्थे निर्वाणाभावो न प्रतिपन्नः, त[26a]त्र ‘गौण-मुख्ययोर्मुख्य कार्यसम्प्रत्ययः' इति न गौणोऽर्थो भवितुमर्हति,
मुख्यहानं वा ॥ ३९ ॥ न गौणपरिग्रहेऽपि गौणस्यैव परिग्रहेण मुख्य बाधकाभावेन मुख्यस्यार्थस्य त्याग उपपद्यते । किं न मुख्ययोगे गौणोऽर्थ इति चेत्, उच्यते-- शब्दनिवेशनमर्थः प्रत्यासत्त्या क्वचित् कयाचिदसः । तदयोगे योगे सति शब्दस्यान्यः कथं कल्प्यः ॥ ४० ॥
यस्मिन्नर्थे यः शब्दोऽन्वय-व्यतिरेकाभ्यां वृद्धव्यवहारे वाचकत्वेन प्रथमनिविष्टो दृष्टो निवेशितो वा स तस्यार्थः, यथा गवादिशब्दानां सास्नादिमदादयः, अप्रतिपन्नसंबन्धस्यावाचकत्वात्, अन्यथा सर्वः सर्वस्य वाचकः स्या[26b]त् कस्यचित् प्रत्यासत्तिविप्रकर्षयोरभावात् । एष मुख्यो नामार्थः । अस्य शब्दात् प्रतिपत्तिाय्या, प्रतिपाद्यत्वेन शब्द प्रति प्रतिपन्नसम्बन्धत्वात् । अस्यायोगे नास्य मुख्योऽर्थः संभवति, अर्थवता चानेन भवितव्यमप्रमत्तवचनत्वात्, दृष्टश्च लोके तथाविधे वचने साहचर्यादिप्रत्यासत्त्या कयाचिदसोऽप्यर्थ इत्यन्योऽप्रतिपन्नसम्बन्धोऽपि लोकदृष्टप्रत्यासत्त्यनतिक्रमेणार्थः कल्प्यते – गौर्वाहीकः, गङ्गायां घोषः, धनुःशतं धावति, दधित्रपुसं प्रत्यक्षो ज्वर इति । स सादृश्यादिनिबन्धनो गौणः । अयं मुख्यासंभवाभावे कल्पयितुं न शक्यते, मुख्यायोगे [27a]एव दृष्टत्वात् ।
किञ्च, अव्यभिचारी मुख्योऽविकलोऽसाधारणोऽन्तरङ्गश्च । विपरीतो गौणोऽर्थः सति मुख्य धीः कथं गौणे ॥४१॥
न हि मुख्यो गौः कदाचिदगौर्भविष्यति, सर्वदा गोत्वस्य शब्दप्रवृत्तिनिमित्तस्याव्यभिचारात् सदा गौरेवासौ । यदापि शब्दान्तराभिधेयतया व्यवहियते शुक्ल: स्थूलो बलिष्ठतया हस्तीति वा तदापि गौः सन्नेव तथोच्यते, न हि तदा गौर्न भवतीति प्रत्ययः, तस्मान्मुख्यः शब्दस्याव्यभिचार्यर्थः, गौणः पुनर्व्यभिचारी। तथाहि - तत्र वस्तुतः स्वप्रवृत्तिनिमित्तविकलेऽर्थे वाहीकादौ
१. ०मत्या मुख्योऽर्थो S ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org