Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 65
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् अन्योऽप्याह - 'दुःखे विपर्यासमतिस्तष्णा चाबन्धकारणम् । जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छति ॥ प्रमाणवा. १/८३] निरालोको लोको विषयसुखतृष्णाविलसितै __तेच्छो दुर्वृत्त्या निरधिकृतबुद्धिस्तव मते। अरण्यानी मोहादुपसरति हा सद्भवमयीं भवन्वा (न्तं?) त्रातारं शिवममृतयोनि न लभते ॥ यदि रत्नत्रयं स्त्रीषु न सम्पद्येत तदेव वक्तव्यम्, किमन्येन ? इत्युक्तम् । तच्चाशक्यम्, तत्र प्रमाणाभावात् । ननु च मा भूत् स्त्रीणां निर्वाणाभावे प्रमाणम्, तदस्तित्वे किं प्रमाणम् ? न चेदानीमिहोपलभ्यमानमार्गोपलम्भादेव तन्निश्चयः, विप्रकृष्टावस्थानां कारणानां कार्ये व्यभिचारात्, अन्यथेदानीं सर्वेषां मुक्तिप्रसङ्गात् । यदवस्थानन्तरं मुक्तिः तत्र प्रकर्षपर्यन्तप्राप्तौ स्त्रीणां न वः किञ्चन प्रमाणमस्ति, परिणामशक्तीनां दुरवसानत्वादिति चेत् ; एवं ब्रुवाणस्य पुंनिर्वाणेऽपि किं प्रमाणम् ? तत्रापि हि शक्यमेवं वक्तुम् । रत्नत्रयप्रकर्षपर्यन्तप्राप्तिसम्भावना च पुंवत् । स्त्रीष्वपि स्यात् । किञ्च, अत्रागमः प्रमाणं यत्प्रसादादस्माकमयमवष्टम्भः, यतः पराङ्मुखो जन्तुर्जन्मजलधिमतिगाहते । कोऽसावागम इति चेत्, अष्टशतमेकसमये पुरुषाणामादिरागमः सिद्धौ । स्त्रीणाम्, अट्ठसयमेगसम[25b]ये पुरिसाणं निव्वुई समक्खाया। थीलिंगेण य वीसं सेसा वसगं ति बोडन्या ॥ [ इत्यादिरागमः स्त्रीनिर्वाणे प्रमाणम् । अथोच्येत - सत्यम्, स्त्रीनिर्वाणाभिधाय्यागमो विद्यते, नास्माकमत्रापह्नवः, . किन्तु स्त्रीशब्दस्य स्तन-प्रजनवौदिमती स्त्री नार्थः, अपितु पुरुषविशेष एव यत्र स्त्रीवेदोदयः, स्त्री १. बौद्धाचार्यधर्मकीतिविरचितस्य प्रमाणवार्तिकस्येयं कारिका। "दुःखे विपर्यासमतिस्तृष्णा चाबन्धकारणम् आश्लेषहेतुर्जन्मिनः, तृष्णया आत्मस्नेहोऽप्याक्षिप्तो हेतुवद् वेदितव्यः। यस्य तन्मलितात्मग्रहस्य ते विपर्यासस्तृष्णा च न स्तो न विद्यते न स जन्माधिगच्छति" इति मनोरथनन्दिविरचिताय प्रमाणवातिकवत्तौ। प्रमाणवार्तिकपरिच्छेदानां क्रमद्वयं वर्तते । क्रमान्तरे द्वितीयपरिच्छेदे ८१ संख्याकोऽयं श्लोकः ।। २. दसछत्ति । न्यायकुमुदचन्द्रे [पृ० ८६९] उद्धृतेयं गाथा तत्र 'दसकत्ति' इति 'दसकंति' इति च पाठान्तरद्वयम् । न्यायावतारवातिकवृत्तावपि [पृ० १२१] उद्धृतेयं गाथा तत्र च 'दसगं तु' इति 'दसगं च' इति च पाठान्तरद्वयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146