Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
३२
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम्
गोशब्दः प्रवर्तमानः तन्निमित्ताध्यारोपमपेक्षते, स हि गोत्वैकार्थसमवायितिष्ठन्मूत्रण[27b]गच्छन्भक्षणादिधर्मदर्शनाध्यारोपिततद्भावो गौर्भवति, नान्यदा । यदा च बलिष्ठतादिविवक्षया हस्तित्वाद्यध्यारोपः तदा हस्त्यन्य एवोच्येत 'हस्त्ययं वाहीकः' 'अश्वोऽयं वाहीकः', न तदासौ गौः, गोत्वाध्यारोपाभावात् । अविकलश्च मुख्योऽर्थः । न हि मुख्येऽर्थे शब्दप्रवृत्तिनिमित्तस्य वैकल्यमस्ति । गौणः पुनर्मुख्यार्थंकदेशानुगमादध्यारोपिततद्भावः शब्दप्रवृत्तिनिमित्तवैकल्याद् विकलोऽर्थः । असाधारणश्च मुख्योऽर्थः । न ह्यसौ मुख्यो गौर्हस्त्यश्वो वा भवति, गौणः पुनर्वाहीको गौर्हस्त्यश्वश्च भवति । तस्मादसौ शब्दान्तरसाधारणो न तु मुख्यः । अन्तरङ्गश्च मुख्योऽर्थः, अर्थान्तरानपेक्षणात् । न हि तत्र गो[28a] शब्दः प्रवर्तमानोऽर्थान्तरमपेक्षते गौणस्तु मुख्यैकदेशदर्शनात् प्रवर्तमानो मुख्यमपेक्षते इति बहिरङ्गः । लोके च शब्दात् प्रतिपत्तिरव्यभिचारादिप्रतिपत्त्यङ्गसमन्वित एवार्थे तत्सम्भवे दृश्यते । यथादर्शनं च शब्दादर्थप्रतिपत्तिरिति गौणमुख्ययोमुख्य सम्प्रत्ययः, तस्मान्न स्त्रीशब्दादिह सति मुख्य स्तन-प्रजनवादिमत्यर्थे पुंसि श्मश्रु-मेहनादिलक्षणेऽर्थे गौणे युक्तः ।
स्तन-प्रजनवादिमान् मुख्योऽर्थः, न तत्स्वभावः पुमानिति कुतो ज्ञायत इति चेत्, स्तन-जघनादिव्यङ्गये स्त्रीशब्दोऽर्थे न तं विहायैषः । दृष्टः क्वचित्
स्तन-प्रजनवांदिव्यञ्जनेऽर्थे एष स्त्रीशब्दो लोके दृष्टप्रयोगः, न तद्वत् श्मश्रु-मेहनादिव्यञ्जनेऽर्थे । लोके च यानि येष्वर्थेषु प्रसिद्धानि पदानि तानि सति सम्भ[28b]वे तदर्थान्येवेह प्रतिपत्तव्यानि, अन्यथाऽतिप्रसङ्गात् ।
अन्यत्र त्वग्निर्माणवकवद् गौणः ॥ ४२ ॥ यश्च पुंसि पुरुषकारशून्ये 'स्त्री अयम्, न पुरुषः' इति प्रयोगः स तत्तुल्यतयोपचारात्, यथा अग्निशब्दस्य माणवके ‘अग्निर्माणवकः' इति । न हि तं लोकः स्तन-प्रजनवादिमतीमिवास्खलितप्रत्ययविषयतया स्त्रियं मन्यते । न चागमे स्त्रीशब्दस्यायं परिभाषितोऽर्थः यथा पाणिनेरादैचो वृद्धिशब्दस्य वृद्धिरादैच् [पा० १/१/१] इति अर्थापत्त्याधिगतः येन स तस्यार्थो विज्ञायेत । स्तनादिमानेवार्थः शास्त्रे प्रसिद्धः, तथाहि -
आ षष्ठयाः स्त्रीत्यादौ स्तनादिभिः स्त्री
१. 'वाहीकः' इति टिप्पन्याम् S ॥ २. साधारणे ॥ ३. स्मश्रु० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146