Book Title: Stree Nirvan Kevalibhukti Prakarane Tika Author(s): Shaktayanacharya, Jambuvijay Publisher: Atmanand Jain SabhaPage 68
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् इत्थीओ गंति छट्टि पुढवीं [ ] इत्यादौ सर्वत्रागमे स्तनादिमत्येव स्त्री प्रसिद्धा, न तां विहायैष स्त्रीशब्दो दृष्ट: । असति तदर्थस्य बाधकेऽर्थान्तरकल्पना[29a]यां तत्रापि तथा स्यात् । न चैवमिष्यते । अत्र सङग्रहार्या - परिभाषितो न शास्त्रे मनुजीशब्दो न लौकिकोऽपि यतः । अमुतो न तत्र बाधा स्त्रीनिर्वाणं ततो न कुतः ॥ ननु स्त्रीवेद इत्यत्र 'स्तनादिमत्याकारादन्यत्र स्त्रीशब्दो दृष्टो भावे । वेद इति मोहनीयोदयजन्मा चित्तविकारोऽभिलाषरूप' उच्यत इति चेत्, न, स्त्रिया इति च वेदः । स्त्रीवेदः स्त्रीवेद इति यदि स्त्री चासौ वेदश्चेति समानाधिकरण: समासो विज्ञायेत ततोऽन्यत्र स्त्रीशब्दो दृष्टः स्यात् । न चात्र सामानाधिकरण्ये प्रमाणमस्ति । स्त्रियाः स्तनादिमत्या वेदः स्त्रीवेद इतीह षष्ठीसमासेऽप्येतदुपपद्यत एव । न[29b]च दृष्टानतिलङ्घनेनाऽर्थोपपत्तौ ३तदुल्लङ्घनं न्यायविदां मनोरथं पूरयति उपचारेण वा कर्मधारयः । स्यादेतत् - इत्थित्तं पल्लसयपुहत्तं तु [ ] इत्यत्रापि स्त्रीव्यवहारः । न ह्येकस्मिन् शरीरे स्त्रीत्वं पल्यशतपृथक्त्वं भवति ४परेण पर(ण ? ) पण्णु पल्ला य [ ] इति वचनात् । अनेकशरीराश्रये तु तावन्तं "कालमविच्छिन्नस्त्रीवेद उपपद्यत इति चेत्, न, स्त्यनुबन्धात् पल्यानां शतपृथक्त्वोक्तिः ॥ ४३ ॥ यद्यप्यभिव्यक्ततदाकारविच्छेदस्तदा न तत्कारणकर्मोदयविच्छेदः, तदनन्तरमेव च पुनः स्त्रीशरीरग्रहणं न च पुंस्त्वादिव्यवधानमिति स्त्रीत्वस्यानुबन्धात् इत्थितं पल्लसयपुहत्तम् [ ] इत्यु[30a]क्तिरुपपद्यते । अपि च भावाश्रयण स्त्रीत्वस्य पल्यशतपृथक्त्वोक्तावपि न च पुंदेहे स्त्रीवेदोदयभावे प्रमाणम् १. 'स्तनादिमत्याः आकारात्' इत्यर्थः प्रतीयते । 'स्तनादिमत आकारात्' इति चेत् पाठः कल्प्यते तदा शोभनं भाति ॥ २. ०लापरूप ॥ ३. तदुल्लंघन ॥ ४. 'अग्रत एवाभिधानात्' इति टिप्पन्याम् s। उत्कर्षेण पञ्चपञ्चाशत् पल्योपमा देवीनामायुरित्यर्थोऽत्राभिप्रेतः ॥ ५. कालमवच्छिन्न | Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146