Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 70
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् अहो दुनिखातस्योपरि निखातः, सति हि मुख्य स्तन-जघनादिलक्षणे स्त्र्यर्थे बाधके, श्मश्रु-मेहनादिलक्षणे पुमर्थे तत्र स्त्रीवेदस्य तावदसम्भवः, पुंसि भवतः पुंवेदवत् स्त्रीवेदत्वविरोधात् । नहि क्रोधादयः स्त्रियां पुंसि वाऽविशेषेण भवन्तः स्त्र्यादिभिविशिष्यन्ते । अभ्युपगमेऽपि पुंसि ३तद्वेदोदयस्य न ततः स्त्रीशब्दस्य पुंसि वृत्तिः, स्तन-प्रजनवौदिमदाकारस्य स्त्रीशब्दप्रवृत्तिनि[32a]मित्तस्य तत्राभावात् । तदाकारदर्शनादेव चायं स्त्रीशब्दः प्रयुज्यते लोके, न वेददर्शनात् । चित्रादौ च वेदाभावः । 'स्त्रीनिर्वाणं नास्ति' इति त्वयापि स्त्रीशब्दस्तदाकार एव प्रयुज्यते, वेदे निर्वाणाभ्युपगमात् । तत्र चैकार्थसमवायिनो वेदात् स्त्रीशब्दप्रवृत्तिरुपचारात्, पुनस्तदभावे भूतपूर्वगत्याश्रयेण स्त्रीत्वमित्युपचरितस्योपचारात् । तत्रासति मुख्यार्थबाधने पूर्व एवोपचारस्तावन्न' युक्तः, द्वितीयस्य पुनरुपचारस्यायुक्तिः प्रकर्षमुद्वहति, उपचाराश्रयेऽपि सत्तायोगस्तस्य सः । आगमः स्त्रीनिर्वाणे प्रमाणमुपन्यस्यते मनुषीषु मनुष्येषु च चतुर्दशगु[32b]णोक्तिरायिकासिद्धौ प्रमाणम् । मनुषीषु मनुष्येषु च पृथक् चतुर्दश स्थानानि शिष्यन्ते । तत्र यदि ‘मनुषीषु' इत्यपि मनुष्या एवोच्यन्ते 'मनुष्येषु चतुर्दश गुणस्थानानि भवन्ति' इत्येव गतत्वात् 'मनुषीषु चतुदश गुणस्थानानि' इत्यनर्थकम् । न हि ते न मनुष्या भवन्ति ये त्वया ‘मनुषीषु' इत्युच्यन्ते, तेषामपि पुंस्त्वात् । तस्माद् — मनुषीषु' इति स्तन-प्रजनवौदिमत्योऽपुरुषाः स्त्रिय एवोच्यन्ते । तत्र 'मनुष्येषु' इति लिङ्ग विवक्ष्यते इति 'मनुषीषु' इत्यर्थवद् भवति । तदेतज्जीवस्थाने मनुषीषु मनुष्येषु इति च चतुर्दशानां गुणस्थानानामनुशासनमार्यिका[33a]निर्वाणे प्रमाणम् । __ यदि च मनुषीषु मनुष्येषु इति च भावनिबन्धनोक्तिः भावस्तवोपरिक्षयी तवाभिमतो वेदलक्षणो भावः अनिवृत्तिबादरसम्परायप्रविष्टनवमगुणस्थान एव क्षीयमाण: ततः परं नैव विद्यते, कथं तत्र चतुर्दशगुणोक्तिरुपपद्यते । 'मनुषीषु मनुष्येषु' इति च न भावप्रधानो निर्देशः, अपि तु तदुपलक्षितद्रव्यविषयः, तत्र गुणोक्तिरुपपद्यते इति चेत्, ९अनवस्थोऽनियत उपचारः ॥ ४६ ॥ १. स्मश्रु S॥ २. तहि S॥ ३. तद्वदोयस्य C॥ ४. 'वेदात्' इति टिप्पन्याम् ॥ ५. तावत् युक्तः । (तावदयुक्तः?) । ६. एतस्योपरि = ईदृशं चिह्नं कृत्वा व्याख्यारूपम् 'उपचारात्' इति टिप्पनं S प्रतावधस्ताद् वर्तते । एवं च 'उपचाराश्रयेऽपि सत्तायोग उपचारात् तस्य सः' इत्यर्थः प्रतीयते ॥ ७. 'स आगमः' इत्यपि सम्बन्धो भवेत् ।। ८. माणे ॥ ९. अनवस्थेऽनियत S | Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146